________________
द्वितीयोऽधिकारः
[१८७
10
मिति गणनीयं षण्मासान यावत्, मन्त्रश्च विधिना, तस्य गुरूक्तविधिना जपतो रात्रावेकदा चक्रेश्वरी देवी प्रसन्ना धवलवना स्त्रीवेषभूता जाता । तयोक्तं षोडश-षोडश मयणमयाः [मृण्मया] ३२ कुम्भा गृहमध्ये स्थाप्याः, अहं तु कामधेनूरूपेण तत्रागता त्वया दुह्याः, सर्वे कुम्भाः स्वर्णमया भविष्यन्ति । ततः प्रतिप्रभातं गोदोहनात् ३१ घटा भृताः द्वात्रिंशत्तमे दिने देव्याः पदयोः पतित्वा श्रेष्ठी प्राह-तव प्रसादादेते घटाः एकत्रिंशत्स्वर्णमया बभूवुः, द्वात्रिंशत्तमं 5 कुम्भं तथा कुरु यथाऽहं सपरिवारं भूपं भोजयामि । देव्योक्तमेवं भवतु । ततः स मुदितः श्रेष्ठी प्रातः कुमारपालभूपं निमन्त्रयामास, प्रहरे याते राजा चरमुखेन भोजनसामग्रीन पश्यत्ति, अहो हास्यं मया सह मण्डितं । एवं सति स आकारणाय समागातः, कामधेनूरूपेण देवी समागता। द्वात्रिंशत्तमे कुम्भे भोजनसकलसामग्री जाता। तृष्टेन राज्ञा चमत्कृतेन पृष्टः स, शातं श्रीयुगादिजिनपूजाध्यानमाहात्म्यं, स सुखी पुण्यवान् ध्यानप्रभावाज्जातः ।
इति पूजायां कपर्दिकश्राद्धकथा ॥३३४॥
[335] अथ तीर्थपूजायां वस्तुपालकथा । एकदा वस्तुपालमन्त्री शत्रुञ्जये विस्तरेण स्नात्रमहोत्सवं कृत्वा यावदुत्तरति द्वितीयप्रपायामगात् तावन्मधुमतीपुरात् बहवो मालिकाः पुष्पकरण्डकान् भृत्वा त्वरितं तत्र प्रपायामाययुः । संघमुत्तरन्तं वीक्ष्य खिन्नाः तान् तादृशान्वीक्ष्य वस्तुपालः प्राह--खेदो न कार्यः, 16 अहं तथा कुर्वे यथा भवतां बहु द्रव्यमुत्पत्स्यते, रहःस्थापितास्ते तत्र, क्रमादन्ये व्यवहारिण आगताः । मन्त्री प्राइ- भवद्भिर्देवाः सर्वत्र पूजिताः सन्ति न वा! किमपि विस्मृतं नास्ति इति पृष्दे ते इभ्याः प्राहुः-युष्माकं प्रसादादेवा नताः पूजिताः । मन्त्री प्राह--इदं तीर्थमेव स्पृष्टं शिवाय भवति, इदं तीथमेव पूज्यं, तीर्थपूजा न कृता इभ्याः प्रोचुः--पुष्पाणि न सन्ति । मन्त्री प्राह--पुष्पाणि आयास्यन्ति ततस्ते मालिकाः प्रकटीकृताः । श्रीवस्तुपालेन ससंघेन 20 पुष्पाणि लात्वा सर्वत्र तीर्थभूपूजा कृता, यतः--
पञ्चाशयोजने मुक्ति-दर्शनात्स्पर्शनादपि । ये जातास्ते गमिष्यन्ति, कालेनापि परां गतिम् ॥१॥ तीर्थनामुत्तमं तीर्थं, नगानामुत्तमो नगः । क्षेत्राणामुत्तमं क्षेत्रं, सिद्धाद्रिः श्रीजिनैर्मतः ॥२॥
25 ततो बहु द्रव्यमुपाय॑ स्वस्थाने गता मालिकाः । मन्त्री ससंघः पुण्यद्रविणं भूरि उपाज्य स्वपुरमगात् । इति तीर्थपूजायां वस्तुपालकथा ॥३३५॥
[336 ] अथ बप्पभट्टि प्रबोधितद्विजकथा एकस्मिन् पुरे एकः शिवभक्तो विद्वान् विप्रोऽनशनं गृहीत्वा शिवप्रासादे उपविष्टस्तस्मिन् समये तत्र बप्पमट्टिसूरय आगताः । श्राद्धैरुक्तं--भवद्भिः सर्व जगत् प्रतिबोध्यते यदि तदा 30
"Aho Shrutgyanam"