________________
१८४ ]
प्रबन्धपश्चशती
श्रीकुमारपालेन भूरयः साधम्मिका लक्ष्मीवन्तः कृताः ।
इति साधर्मिकवात्सल्ये कथा ॥ ३२८ ।।
[ 329 ] अथ संघभक्तौ रत्नकथा । श्रीवस्तुपालो गुरूणामुपदेशं श्रुत्वा बहुसंघयुतः १४४ देवालयसहितो वढवाणमामे प्राप्तलझमनुष्योः तत्र पुरस्थेन श्रीरत्नेन सकलस्य संघस्य भक्तिः कृता । अत्रावसरे एकेन कविना __ काव्यमुक्तमिदम्
पूर्व श्रीऋषभान्वयी व्यरचयन् श्रीदण्डवीयों नृपः,
श्रीमांस्तीर्थपथाध्वगार्हतततेर्वात्सल्यमुच्चैस्तराम् । कुर्वन् सप्तमनुष्यलक्षकलितः श्रीसंघभक्तिं परां,
__ श्रीरत्नः कृतवान् त्वदीययशसः श्रेष्ठी पुनयौवनम् ॥१॥ वस्तुपालाग्रहात् श्रेष्ठयपि संघसार्थे चलितः । एकदा मध्यरात्रौ दक्षिणावर्तशंखाधिष्ठायकदेवेन कथितं अहं श्रीवस्तुपालमन्त्रिपार्वे यास्यामि । ततः क्रियत्कालमभ्यर्च्य स्थापितः । श्रीशत्रुजयादितीर्थ यात्रां कृत्वा श्रीवस्तुपालसंघो वढवाणे प्राप्तः । रत्नश्रेष्टिना भोजनार्थ निमन्त्रिता परं न तिष्ठति बहुकालविलम्बात् । बह्वाग्रहादिनाष्टकं स्थापितः । पुनः शंखेनोक्तम्---
सर्वगृहे भोजनसामग्री मत्प्रभावात्कार्यतां । सकलोऽपि संघोऽनपानादिना सन्मानितः । अष्टौ दिनानि श्रीसंघ सन्मान्य रत्नश्रेष्ठो सुखी जातः । ततो रत्नो गुरूणा संघाचा कृत्वा वस्तुपालमन्त्रिणं स्वगृहे आकार्य गोमयेन गूहलिकां कृत्वा तदुपरि आसने उपवेश्य छबायां शंखं मुक्त्वाऽपयामास । ततः शत्रुक्षये यात्रा कृता रत्नेनापि मन्त्रिणा समम् ।
इति श्रीसंघभक्तौ रत्नकथा ॥३२९।।
1330] अथ निर्लोमे कुमारपालकथा । श्रीपत्तने कुमारपालोऽन्यदा सामायिक लात्वा नमस्कार श्रीयोगशाखादिगणनपरोऽभूत् । तत्र चत्वारो आम्बड़ बाहड-चाहडसोलाद्याः समायाताः । राजा पृष्टास्ते किमर्थमागमनम् ! ते प्रोचुः कुबेरदत्तो वाहणे सदा चटति निष्पुत्रोऽद्य विपन्नः। सोऽपि भूयमाणोऽस्ति तेन गृहलक्ष्मीविलोक्य
गृह्यता । राजा प्राह-पौषधशालायामिदं वक्तुं न युज्यते सामायिकभङ्गात् । यतः-"सामाइअंमि 26 अकए" ततः सामायिकं संपूर्य-पारयित्वा च गृहे गतः। तस्यावासो दृष्टः परमरम्यः गृहमध्ये ।
देवालये चन्द्रकान्तरत्नमयीप्रतिमा रत्नमयालयः भूमिपीठं रत्नमयं तत्र परिग्रहपरिमाणं तस्य दृष्टम् । एकसहस्रं हस्तिनः । ५० सहस्रतुरङ्गमाः । ८० सहस्रगोकुलशतमूढकैरेका खारी । एवंविधा स्वारी वर्षे द्विसहस्रा विलोक्यन्ते । रत्नहीरातुलापलशतं सहस्रं च । ५० वाहण । ५०० हल । ५०० शकट । ६ कोडिसुवर्ण । ८ कोडिरूप्य । १४ कोडिनवीना व्ययार्थ वाहने
"Aho Shrutgyanam"