________________
द्वितीयोऽधिकारः
[ १८३
पूनडसंघपतिमन्त्रिणोर्गाढालिङ्गनादिप्रतिपत्तिः परस्परमभूत् । सरस्तीरे स्थितः संघः, रात्रौ मन्त्रिणा कथापितं पूनडाय, प्रातः श्रीसंघेन सह भवताऽम्मदावासे भोक्तव्यं । तथेत्याह । भोजनमण्डपे निष्पन्ना सर्वप्रकारा रसवती । प्रातरायान्ति नागपुरीया भोजनाय । मन्त्री सर्वेषां पृथक्पृथक्पादप्रक्षालनं तिलकं च स्वयमेव करोति । एवं द्विप्रहरी लग्ना । मन्त्री तथैवाऽखिन्नः तदा तेजः पालेन विज्ञप्तमन्यैरपि तथा देव ! भक्तिः कारयिष्ये । यूयं भुङ्गध्वम् । तापो भावी । मन्त्री प्राह – मैवं वद | पुण्यैरयमवसरो लभ्यते । गुरुभिः कथापितं -
5
जेण कुलं आयतं तं पुरिसं आयरेण रक्खिज्ज | नहि तुम्बंमि विणट्टे, अरया साहाय्या हुति ||३|| मन्त्रिणेदं काव्यं गुरुभ्यः प्रहितम् -
अद्य मे फलवती पितुराशा, मातुराशिशिखाङ्कुरिताऽद्य । यद्युगादिजिनयात्रिक लोकं प्रीणयाम्यहमशेषमखिन्नः ||४|| भोजयित्वा परिधाप्य च रञ्जितः श्रीसंघः ।
इति यात्रोपरि पूनडसंघभक्त्युपरि वस्तुपालमन्त्रिकथा ॥ ३२७॥ [328 ] अथ साधर्मिकवात्सल्ये कथा ।
श्रीकुमारपालो राज्यं चकार । अन्येद्युः श्रीहेमसूरिपार्श्वे गतः उपदेशं शुश्राव । तथाहि - 15 दानं वित्ताद् ऋतं वाचः कीर्तिर्धमों तथायुषः । परोपकरणं काया - - - दसारात्सारमुद्धरेत् ॥ १ ॥ साधर्मिकभक्त्या श्राद्ध उत्तमं पदं प्राप्नोति
पुरा भरतभूपेन, युगादिजिनखनुना । साधर्मकाय विहिता, भक्तिरन्नादिदानतः ||२||
अत्र ब्राह्मणोत्पत्तिर्वाच्या । श्रुत्वैतत्कुमारपालः साधर्मिकभक्ति कुर्वाण एकसाधर्मिकं शालायां चिन्ताकारकं चकार । स च मुखवखिकामर्पयति भूपाय गृहणाति च । तस्य राज्ञा द्वादश प्रामाणि दत्तानि । गङ्गाजलतुरङ्गमपचशती दत्ता ।
एकदा साधर्मिकस्य एवं समृद्धिर्दृष्ट्रा श्रीपाइवेजिनप्रासादाग्रे केनचिच्चारणेनोक्तम्-
रुड पारसनाथ जइ एए हवउं जाइ सिइ सहिसि । सेउ सत्थ कुमरनरिंदहवाहिरउं ॥ ३ ॥
" Aho Shrutgyanam"
10
20
25