________________
१८२ ]
प्रबन्धपश्चशती
[326 ] अथ विमलप्रबन्धः । प्राग्वाट्वंशे श्रीविमलो दण्डनायकः । स चिरमर्बुदाधिपत्यमनुभवन् श्रीगूर्जरेश्वरस्य प्रशस्तेः तस्य विमलमतेर्वाञ्छाद्वयमभूत् । पुत्रप्रासादवाञ्छा । तत्सिद्धौ श्रीअम्बादेवी प्रत्यक्षीभूय प्राहभो वत्स ! वाञ्छा-स्वरूपं ब्रूहि ।
विमलोऽवग्-पुत्रप्रासादयोऽब्छाऽस्ति । देव्योक्तं-द्वे प्राप्ती न स्तस्तव, एका ब्रूहि । पुत्रवाञ्छा संसारविवर्द्धिनीमिति मत्त्वा विमलोऽवग्-हे देवि ! अम्वे ! तवोक्तं भवतु ।
देव्यवग्-प्रतीक्षस्व क्षणमर्बुदा प्रष्टव्या । श्रीमातुरनुमतिं गृहणामि । तावद्विमलो भ्याने स्थितः । श्रीमातुःसंमति लात्वा अम्बाऽवग-हे वत्स ! यत्र पुष्पस्रगरुचिरा गहली द्रक्ष्यसि तत्र 10 प्रासादं कारय । तथा दृष्ट्वा प्रासादमस्थापयत् । अष्टकोटिसुद्रव्यव्ययः तत्र प्रासादे, पित्तलमयी प्रतिमा महती स्थापिता संवत् १०८८ । इति विमलप्रबन्धः ॥३२६॥
[327 ] अथ यात्रोपरि पुनडसंघभक्त्युपरि वस्तुपालमन्त्रिकथा । नागपुरे सा० देल्हासुत सा० पूनडश्रीमोजदोनसुरत्राणबोबीप्रतिपन्नबन्धुः अश्वपति-गजपति नरपतिमान्योऽभूत् । सोऽन्यदा गुरोः पावें गतस्तत्र गुरुर्देशना कृता । लक्ष्मीधर्मस्थानेषु स्याप्यते 15 तदा शाश्वती भवति । इहलोकपरलोके च जीवः सुखी भवति । विशेषतो यात्रापुण्यं महत् । यता
आरम्भाणां निवृत्तिविणसफलता संघवात्सल्यमुच्चै--
नैर्मन्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् । तीर्थोन्नत्यं प्रभावो जिनवचनकृतिस्तीर्थकृत्कर्मकत्वं,
सिद्धेरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि ॥१॥ अत्वैतत्तेनाद्या यात्रा १२७३ वर्षे बिम्बेरपुरात्कृता । द्वितीया यात्रा सुरत्राणदेशात १२८६ नागपुरात्कर्तुमारब्धा । १८०० शकटानि महान्ति १००० सेजवाला । ४०० वाहिन्यः । ५०० घोटकाः । भूरिशो देवालयाः । भूरिशो महाधराः शुभे मुहूर्ते ततश्चलन् स्थाने स्थाने उत्सवं कुर्वन् माण्डलिकग्रामासन्नो यावदायातस्तावत्संमुखमागत्य तेजःपालेन धवलकककमानीतः श्रीसंघ ।
श्रीवस्तुपालसंमुखमागात् । संघधूलीपवनानुकूल्यतो या दिशं याति तत्र तत्र गच्छति । संघजनैः 25 रभाणि-मन्त्रीश ! इतो रज, इतः पादाववधायताम् । मन्त्री प्राह-इदं रजः पुण्यैः स्पष्टं लभ्यते । अस्मिन्पृष्टे पापरजो दूरे नश्यति । यतः
श्रीतीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु बंभ्रमणतो न भवे भ्रमन्ति । द्रव्यव्ययादिह नराः स्थिरसम्पदः स्युः, पूज्या भवन्ति जगदीशमथार्चयन्तः ॥२॥
"Aho Shrutgyanam"