________________
द्वितीयोऽधिकार
[ १७५ सर्वमाभरणादि भगिन्यै ददौ । ततो जिमित्वा वीरोऽवग्-लोके धनमेव, न भ्रात्रादयः ।
इति निःस्वत्वानि:स्वत्वयोर्वीरकथा ॥३०७॥
[ 308 ] अथ यशोदाने याचकसम्बन्धः । हेमपुरे एकः क्षत्रियो याचको भूत्वा सोमं धनिनं घोटिकादि याचनाय गतो बिरुदावलीमिति जगाद
वैरिकुम्भिकेसरि ! त्वं चैरविजित्वर ! त्वं ।
दानजितार्जुनकर्ण ! त्वं सत्येन युधिष्ठिर ! त्वम् । एतत् श्रुत्वा तेन घोटको दत्तस्तस्मै । इतोऽन्येद्युस्तस्य धनिनः पुरः एकः समागतो जगौ
“यथाऽन्ये दानं ददते तथा त्वं कथं दरसे त्वं गृहशूरः" इत्यादि श्रुत्वा तस्मै गालिं ददौ ।
इति यशोदाने याचकसम्बन्धः ॥३०८॥ {309] अथ जिनप्रभसूरिभिः पीरोजसुरत्राणः प्रतियोधित इति सम्बन्धः ।
ढिल्यां श्रीविजयसिंहसूरय आगताः। श्राद्धा धर्म श्रुत्वा प्रोचुः । गोजनकसुरखाणो म्लेच्छोऽनेकान् जिनप्रासादान पातयन् केनापि निषिद्धुं न शक्यते । ततो गुरुभिः ध्यातं यदि केपि देव आराध्यते तदा सुरत्राणमनुकूली करोमि तथा यथा प्रासादान् न पातयति । ___इतो धर्मोपदेशावसरे गुरुभिः प्रोक्तं प्रासादाः कार्यन्ते मुक्तिहेतुत्वात् । श्राद्धैरुक्तंअप्रेतना: पात्यमानाः सन्ति यवनैनवीनाः कथं कार्यन्ते ? यदि वः शक्ति स्यात्तदा रक्ष्यन्ता प्रासादाः । गुरुभिः प्रोक्त-यदि ष[षा ण्मासी यावत्पद्मावतीध्यानं क्रियते तत्र ध्यानं कुवतो यस्य साधुभिर्विहृत्यानीतमन्नं पद्मिनी परिवेषयति । सा पार्श्वे अहोरात्रौ तिष्ठति । तस्य चेद्ध्यानं निश्चलं भवति मनोऽपि न चलति तदा पद्मावती स्मृता सती सदा चिन्तितं करोति । श्राद्ध रुक्तं-यद्विलोकयिष्यते तदस्माभिरानेष्यते । ततो गुरुभिर्मानिते पद्मिनी स्त्री आनीता । गुरुभिः {षा]षण्मासी यावन्निश्चलं ध्यानं कृतम् । पद्मावती प्रत्यक्षाऽभूत् यदा तदा गुरवो न जल्पन्ति । ततः पद्मावती प्राह-भगवन् ! कथं न जलप्यते, प्रसन्नीभूय अल्प, ममापराध क्षमस्व । त्वया यदा ध्यानमारब्धं तदाऽहं प्रभोः पार्वे समागां परं जल्पितुं न शक्ताऽभूवं कारणात् । गुरुः प्राह-कि कारणं पद्मावत्याह-भीपूज्यपादबलात् ध्यानादहं समागता परं स्तोकमायुदृष्ट्वा विमर्श पतिताऽहं । गुरुराह-मम कियदायुरस्ति ? पद्मावत्यवग--पाण्मासीमेव । गुरवो जगुःआयुषधेते न तथापि तथा कुरु यथा मम ध्यानं सफलं भवति । पद्मावती जगौ-तव शिष्यस्याहं प्रत्यक्षा भविष्यामि । गुरुः प्राह-को योग्यो यस्य प्रत्यक्षा भवसि । पद्मा प्राह-गच्छमध्ये
"Aho Shrutgyanam"