________________
द्वितीयोऽधिकारः
[ १७३
वर्ध्यता दीपः क्षयं नीयताम् । अतो राज्यं गतम् । सा स्त्री दरिद्रिणी यदि साम्प्रतं नश्यते तदा वरम् । जीवमरो भद्राणि लभते । एवं विमृश्य राजा पत्नी पुत्रयुतः किंचिद्धनं लावा छन्नं रात्रौ पुराभिर्ययो । पथि गच्छतो भूपस्य धनं भिल्लेलुटितम् । क्रमाद्धनाभावात्परिवारो गतः । ततो राजा पत्नीपुत्रयुतः पादचारी जातः । पदेषु कण्टका भज्यन्ते । रुधिरं निर्गच्छति । क्रमात्तषा लग्ना । ततो राजा दूरं गत्वा पानीयमानीय पत्नीपुत्री पायितो । फलाहारं कुर्वाणो राजा पधपुरे गतः । तत्र राजानं सेवते स्म । किमपि न लभते । ततः काष्ठेन्धनतृणादि वनादानीय विक्रीय च स्वोदरं बभार भूपः सकुटुम्बः एवं तस्याम्दाष्टकं गतम् ।।
इतोऽन्यदा कयाचिदेवतया तत्पुण्यप्रेरितयाऽभ्येत्य प्रोक्तम् । गच्छ स्वपुरे । तत्र छमं स्थेयं वैर री अपत्रको मरिष्यते । तव राज्यं भविष्यति । ततस्तेन देव्योक्ते कृते वैरिणि मृते राजा बभूव । मदनः क्रमाद्राजा । मदनः पुत्राय राज्यं वितीय परलोकमसाधयत् । स शूरराजा 10 कुसंसर्गादिन प्रति [प्रतिदिनं ] बहून्पशून् हन्ति । सचिवैः प्रोक्तं-ईदृशी जीवहिंसा न क्रियते नरकहेतुका । ततो न शूरस्तस्थौ तस्मात्पापात् । ततस्तीर्थध्वंसं चकार। एवं पापपरःशूरः कुष्ठीजातः। अनेक वैश्विकिरिसतोरोगो न गतः । ततो गङ्गागयादितीर्थेषु स्नानानि चकार । राजा [:] तथापि न गुणोऽभूत् । ततोऽतीवजातान्तिः सचिवान्प्रति प्राह-अहं जीवितुं न शक्नोमि ! काष्ठभक्षबेन देहं त्यक्ष्यामीति । ततो मन्त्रिणो जगुः । काष्ठभक्षणात्कृतकर्मणो न छुट्यते । ततो यदा 15 राजा काष्ठभक्षणायाचालसदा तत्राकस्मात् ज्ञानी समागात् । ततस्तं गुरुं भूपोऽप्राक्षीत् मम कथं रोगोपशमो भविष्यति ! ततो बानी जगौ। शत्रुजये गम्यते । तत्र चन्द्रकुण्डे स्नानं कृत्वा श्री ऋषभदेवस्य पूजा क्रियते । सप्त षष्टानि, एकमष्टमं च । राजादन्या अधःस्थितया मृत्तिकयाचं लक्ष्यते २१ दिनानि यावत्, तदा रोगो याति तव । ततो हान्युक्ते कृते राजो रोगो गतः । ततो राजा महान्तं तत्र प्रासादं कारयामास । तत्र ऋषभस्य प्रतिमामस्थापयत्। 20 श्री शत्रुञ्जये यात्रा विस्तराच्चकार । ततः शूरः स्वं सुतं राज्ये न्यस्य शत्रुजये गत्वा तपस्यां लात्वा सर्वकर्मधयान्मुक्ति ययौ ।।
इति शत्रुञ्जयतीर्थप्रभावे पूरकथा ॥३.४ ॥
[305] अथ भाम्ये चन्द्रकथा । चन्द्रपुरे चन्द्रो वणिग दुःस्थोन्यदा नदीतटे गतः । तत्राकस्मानदीवर्ट पपात । तत्र 25 निधिं प्राप । ततोऽन्यदा भूपपार्वे भूमि मार्गयित्वा आवासं कारयितुं चन्द्रो लग्नः । तदा तत्र भूमि खनयतस्तस्य कोटिमितं धनं निर्गतं । तद्राको दर्शितं चन्द्रेण । राजाऽवग--मया तु भूरियं तुभ्यं दत्ता । ततोऽधुना तव पुण्यानं निर्गतं । ततस्त्वमेव गृहाण । ततश्चन्द्रः सर्वज्ञप्रासादान् धर्मशालाश्च भूरिशः कारयामास सप्तक्षेत्र्यां लक्ष्मी व्ययति स्म । चन्द्रः स्वर्ग गतः क्रमात्सेत्स्यति । इति भाग्ये चन्द्रकथा ॥३०५॥
30 [306 ] अथ मेघवातसंवादसम्बन्धः । एकदा मेघवातो मियो जल्पतः स्मेति । मेघोऽवग-अहमेव लोकं जीवयामि वारिदानात ।
"Aho Shrutgyanam".