________________
१७० ]
प्रवन्धपञ्चशती दत्ता । तस्या आभरणानि कारितानि । एकदा समुत्पन्नरोगा लिम्बडी पतिगृहस्था मृता । तां मृतां श्रुत्वा मातापितरौ दुःखिनौ जातौ । आभरणानि पितुगृहे स्थितानि । तदा कोऽपि धूर्तो धनकौटुम्बिकोऽभ्येत्यावग--नमश्चक्रे तयोः । तदा ताभ्यां प्रोक्तं--कुतः स्थानात्त्वमागाः ?
सोऽवग--अहं भवतोः पुत्रीपाऽत्तदा माताऽवग--लिम्डीपुत्री क्वास्ति ? धूर्तोऽवग्--स्वर्ग 5 देवाङ्गना जाताऽस्ति सुखिनी च । मन्मुखेन तया सर्वाणि आभरणानि याचितानि सन्ति ।
यदि अय॑न्ते तानि तव पुत्र्या अर्पयामि । मात्रा मुग्धया पुत्रीमोहात्तस्मै सर्वाण्याभरणानि दत्तानि । सोऽपि छलितानि लात्वा चचाल ।
इतो धनो गृहे आगात् । पुत्रीभूषणप्रेषणस्वरूपं पत्युरने पन्योक्तं धनोऽवग् । प्राह-त्वं तु मुग्धा । स तु छली । तानि लात्वा गतः । ततो भूषणानि वालयितुं वयंघोटिकारूढस्त10 स्पृष्ठौ चचाल । मार्गे मिलितः सन् तं हक्कयामासोच्चैः रे दुराचार ! मुन्च भूषणानि पुत्र्या
नो चेद्हनिष्यसे । छली धनमागतं दृष्ट्या मार्गस्थतरोरुध्वं चटितः । स च कौटुम्बिकः घोटिकाया उत्तीय वृक्षमारूढो धत्तुं तम् । स बली शाखयोत्तीर्य त्वरितं घोटिकामारुह्य त्वरितं चचाल । कौटुम्बिको वृक्षादुत्तीर्य तत्पृष्ठौ दधाव हक्कयति च । यदा न मिलति धनस्तस्य तदोच्चैः
स्वरं प्राह--एषाऽपि घोटिका साभरणा लिम्बड्थे भवतु एवं प्रोच्य पादचारी गृहागतो 15 धनः पृष्ठः पन्था, तदा धनोऽवग- त्वया पुच्या आभरणानि प्रेषितानि मया तु घोटिका । पत्नी प्राह--वयं कृतम् । इति मुग्धतायां कौटुम्बिधनतत्पत्नीलिंबडीपुत्रीकथा ॥२९६॥
[297 ] अथ दन्तदर्शने श्रेष्ठिवधूकथा । श्रीपुरे चन्द्रप्रेष्ठिनश्चतस्रो वध्वोऽभूवन् । एकस्या वर्या मुद्रिका कारिता श्रेष्ठिना, द्वितीयस्या 20 वर्या शाटिका, तृतीयस्याः स्वर्णमया दन्ताः । ताभिरेकदा स्वजना जेमनाय निमन्त्रिताः । ता
जेमनायागता यदा तदा प्रथमया मुद्रिका दर्शिता, द्वितीयया शाटिका दर्शिता, तृतीयस्या गृहे या जेमनायागताः तासां पुरः तृतीया दन्तान स्वर्णमयानुद्घाट्य हसित्वा प्राह-भोः स्त्रियः अद्य किमपि रडुं न शकितं मया । कल्ये जेमनायागन्तव्यम् । ताभिः प्रोक्तं-चर्य कृतं गौरवं
दन्ताः स्वर्णमया दर्शिता । दन्तदर्शनेन वयं भोजिता ! दन्तदर्शनेनापि यच्छुटितास्तद्वरं इति 25 जल्पन्त्यस्ताः स्वस्वगृहे गताः । इति दन्तदर्शने श्रेोष्ठिवधूकथा ॥२९७||
[298] अथ अविमृश्यकारकधनकथा । __ एकः कोऽपि मुग्धः पुमान् पलाशपत्राणि फलानि च वर्याणि वीक्ष्य दध्यो-एवंविधो वृक्षो यदि गृहाङ्गणे भवति तदाऽतीव गृहशोभा भवति ।
ततस्तेन तद्बीजान्यानीयारोपितो वृक्षः वर्धितो वारिसिञ्चनतः सच्छायोऽभूत् । क्रमात्फलानि 30 लग्नानि आस्वादितानि कटुकानि । पत्रेषु च वृश्चिका उत्पद्यन्ते । पक्षिणोऽभ्येत्य ते कलकलं
"Aho Shrutgyanam"