________________
१६२ ]
प्रवन्धपश्चशती
10
स्युः । अतस्त्वं किमप्यभिग्रहं गृहाण । ततः कमलोऽवग्-अतः परं देववन्दनं विना न भोक्ष्ये । ___ एकदा श्रीयुगादिजिनं प्रणम्य भोक्तुमुपविष्टः कमलो यावत्कवलं हस्ते ललौ, तावत्स्वगृहीताभिप्रहं सस्मार, प्राह च प्रियां प्रति अहं देवं नत्वैव भोक्ष्ये । तथावस्थित एवाभ्युत्थितस्तदा 5. प्रिया प्राह-स्वामिन् ! हस्तं घृतस्निग्धं प्रक्षालय । कमलोऽवग-एतद् घृतं हस्तलग्नं कथं त्यज्यते ।
ततो गहिनीहस्तेनाम्बरं परिधाय देवगृहे ययौ। युगादिजिनं भावात्प्रणम्य यावद्वलितस्तावदगोमुखयक्षः प्रकटीभूत्वाऽवग-तव प्रमुभक्त्या तुष्टोऽस्मि । वरं मार्गय । कमलोऽवग-प्रिया पृष्दैव मार्गयिष्यामि वरम् । ततः कमलस्तथावस्थः पश्चादागत्य गोमुखयक्षतुष्टत्वादि प्राह प्रियान्ते । ततः प्रियाऽवग-सबुद्धि मार्गय । ततः कमलो यक्षपार्वे सुबुद्धि याचित्वा गृहागतः प्राह-प्रिये ! जलमर्पय हस्तं प्रक्षालयामि । प्रियाऽवग्-सपिह स्तलग्नं गमिष्यत्येवं । कमलः प्राह-हस्तपाद प्रक्षालनादि विना न भोक्ष्यते मया, ततो हस्तं प्रक्षाल्य मुक्ते स्म सः।
इतस्तत्र पुरे रामा स्वकारितमहत्सरोमध्ये स्तम्भं स्थापयित्वोक्तम्
"यः पुरुष अमुं स्तम्भं कण्ठस्थो दवरकेण बध्नाति, पट्टहस्तिनं तोलयित्वा यावन्तो भाराः 16 स्युस्तावतः कथयति तस्मै सर्वमन्त्रिमुख्यं पदं ददामि ।"
__ तदा वाद्यमानं पटहं कमलः पृष्ट्वा महान्तं दवरकं सरसः पालौ परितो मुक्त्वा तद्दोरप्रान्ते तहोरस्यादौ प्रन्थि बध्वा कर्षयन्स्तम्भं कमलः सरःपालिस्थो बबन्ध ।
यानपात्रे हस्तिनं आरोहयामास । यावन्मात्रं यानं जलनिमग्नं तत्राभिधानं कृतं तेन । ततो हस्तिनमुत्तार्य पाषाणैस्तं बभार, तावद्यावत्पूर्वाभिधानं ततः सर्वे पाषाणास्तोलिताः । 20 तोलयित्वाऽवग--अष्टादशभारप्रमाणोऽयं हस्ती। ततो राज्ञा ग्रामाणां सहस्रं दत्त्वा मन्त्रि
मुख्यः कृतः । ततो वयं धौतकादि परिधाय वयंपुष्पचन्दनादिना पूजयति । प्रभु त्रिकालं गुरुपाश्र्वे धर्म शृणोति सदा पञ्चशतीलोकोत्सर्गकायोत्सर्ग करोति ।
___ एकदा तस्य कायोत्सर्गस्थस्य सर्व कर्म क्षीणं केवलज्ञानमुत्पन्नं ततः प्रियापि तस्य केवलिपार्वे गजापि धर्म श्रुत्वा देवपूजादिधर्म कुर्वाणो मुक्तियोग्यं कर्मार्जयामास । 25
इति सुबुद्धौ कमलश्रेष्ठिकथा ॥२७६।।
[279] अथ शुद्धधर्मे कमलकथा । एकः श्रेष्ठी अनुज्ञाप्य भूम्यधिष्ठायिकां कायिकी करोति । एकदा बहिर्गतो यत्र यत्र "अणुजाणह जस्सुग्गह" करोति तत्रेको यक्षो वक्ति-मा उपविश । तत एकदा यक्षं पञ्च
यित्वा कायिका व्युत्सृजन् । ततो यक्षस्तुष्टोऽवग-वरं मार्गय । ततो यक्षपा दावासो 30 महान्कारितः । ततो बहूनि निधानानि स्वगृहे आनीतवान् । तदा यक्षोऽवग--मम कार्य
कथयिष्यति न तदा त्वां छलयिष्यामि । ततः कमलो यं यमादेशं दत्ते तं तं स सद्यः करोति । ततः श्रेष्टिगृहस्याने महान्तं स्तम्भ कारयित्वा तत्र स्फारा शृङ्खला कारयित्वा तस्य गळे क्षिप्त्वा
"Aho Shrutgyanam"