________________
द्वितीयोऽधिकारः
[ १६३
ऽवग-अस्मिन्स्तम्भे चट उत्तर च, याबदहं द्वितीयमुत्तरं न दास्ये । ततो वानररूपधरः श्रेष्ठयुक्तं कुर्वन खिन्नोऽवग यो-मां मुब्चातः परं त्वां न छलयिष्यामि । ततः श्रेष्ठ्यवग-यदाऽहं त्वां स्मरामि तदाऽऽगन्तव्यम् । ततः श्रेष्ठिमुक्तो यक्षः श्रेष्ठिवश्योऽभूत् । ततः श्रेष्ठी शुद्ध धर्म कृत्वा मुक्ति गतः । इति शुद्धधर्मे कमलकथा ॥२८०॥
[281 ] अथ आखुसेवकहस्तिमोचनसम्बन्धे मित्रकरणविषये कथा । पद्मवनेऽनेकपाभिः सप्तशतमिताभिः परिवृत एको महान्हस्ती सल्लकीर्भक्षयन्मत्तोऽभूत् । तस्यैकदैक उन्दरोऽभ्येत्यावग्-यदि ते रोचते तदाऽहं सेवां करिष्ये तव । तदेभो हसन्नाह--'अहो त्वं मम सेवां करोषि तदाऽहं रक्षितोऽस्मि वैरिभिः' इत्यादि हास्यं वचः श्रुत्वोन्दरोऽवग-कदाचिलघुजातिजोऽपि लघुतनुरपि वृद्धतनोरुपकारकृत् स्यात् , तदापि स हसतितरां हस्ती !
एकदा हास्यादाह हस्ती-यदि मां त्वमापदः कर्षयिष्येस्तदाऽहं त्वां महान्तं मन्ये । 10
एकदा व्याधमण्डितदृढपाशे हस्ती पपात । तदा हस्ती कष्टं तिष्ठति । पाशानिर्गन्तुं न शक्नोति । दिशो विलोकयति । तदोन्दरः सोऽभ्येत्यावग-त्वं मया स्वामी चक्रे । यदि रोचते ते तदा कर्षयिष्याम्यतस्त्वाम् । तदा हम्त्यवग-त्वं कथं मोचयिष्ये मामुन्दरोऽवग-मम वीर्य विलोकयाहं तथा प्रपञ्चं करिष्ये यथा त्वं मुत्कलः स्यात् इत्युक्त्वाऽऽखुः सर्वान् वनस्थानाखून मेलयित्वा वाधं आद्रं कृत्वा ततो दन्तैखोट्यामास तथा यथा हस्ती मुत्कलोऽभूत् । ततो हस्ती आखू- 15 प्रीत्या प्रामोदयत् । एवं हस्तिवज्जीवः कर्मबन्धैर्मोहव्याधेन बद्धः सन् शुभच्यानसन्ततिरूपश्वेताखुभिर्मोचितः सुखी शिवभाग स्यात् ।
इति आखुसेवकहस्तिमोचनसम्बन्धे मित्रकरणविषये कथा ॥२८१॥
[282 ] अथ असम्बद्धजन्पने चौरव्यवहारियथा । कनिद्वयवहारी बहुविधरत्नरूप्यादिवस्तुयुतो विदेश प्रति गच्छन् मार्गे चौरैदृष्टस्तैर्यदा ह 20 धनं चेलुः तदा स व्यवहारी संमुखं तेषामचलत् ! प्राह च बुद्धया-भवतां यद्विलोक्यते तद् गृह्यताम् । तदा चौरा जगुर्दास्यात् भवतः सर्व पश्चादर्पयिष्यते । ततो वणिकप्राह-मम कोऽपि साक्षी क्रियतां । ततस्ते जगुरयं वनमार्जार एव साक्षी। तदा तेन वणिजा सर्व वस्तु व्यक्त्या जल्पयित्वा इदं हेम, इदं रौप्यमित्यादि दत्तम् । ते चौरा हृष्टा वस्तु लात्वा गता रमापुरे वणिगपि पृष्टौ तस्मिन्पुरे ययौ । भूपश्च मिलित उक्तं च तेन ममैतैश्चौरैः सर्व वस्तु गृहीतम् । ततो मन्त्रि- 35 भिभूपादेशादुक्तं-वणिजः पार्श्वे कः साक्ष्यस्ति ? वणिजोक्तं मार्जारोऽस्ति । ततः स वणिग यदा कृष्णं बिडालं गृहीत्वाऽऽगात्तत्र मन्त्रिणां पुरः प्राहायं साक्षी । ___ ततस्ते चौरा जगुः-स मार्जारो रक्तवर्णोऽभूदयं तु कृष्णवर्णः । ततो मन्त्रिभिरुक्तं-एते चौरा एतस्य धनं कृत्वा कूटं जगहुँः । ततस्तान् दण्डयित्वा नैगमस्य सर्व धनं दापितं मन्त्रिभिः । इति असम्बद्धजल्पने चौरव्यवहारिकथा ॥२८२।।
30
"Aho Shrutgyanam'