________________
10
१६. ]
प्रबन्धपश्चशती येषां धर्म समेति ते धन्याः । यदुक्तम्
ज्वलनजलचौरचारण-नृपखलदायादबन्दिकोवृत्तम् ।
धन्योऽसौ यस्य धनं, जिनभुवनादो शुमे लग्नम् ॥२॥ विशिष्य च प्रासादपुण्यमपारमाहुमहर्षयः । यदुक्तम्
काष्ठादीनां जिनावासे, यावन्तः परमाणवः ।
तावन्ति वर्षलक्षाणि, तक्ष" स्वर्गभाग्भवेत् ॥३॥ परमाणुस्वरूपं लौकिक
जालान्तरगते सूर्ये, यत्सूक्ष्मं दृश्यते रजः । तस्य त्रिंशत्तमो भागः, परमाणुः स उच्यते ॥४|| नूतनाह द्वरावासे, विधाने यत्फलं भवेत् ।
तस्मादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिनाम् ॥५॥ अतो मातुः प्रमोदाय जिनप्रासादमण्डितां भुवं व्यधात् । प्रातर्मातुः पादौ प्रणम्यापरकायं करोति ।
संप्रतिवर्तयामास, सौवायुर्वासराण्यहो ।
नत्र्यकारितषट्त्रिंश-त्सहस्रार्कगृहेर्मुदा ॥६॥ 16 श्रीसम्प्रतिनुपस्त्रिखण्डभूभर्ता भूविजयं कृत्वा १६ सहस्र मुकुटबद्ध नृपपरिवृतोऽन्यदोज
यिन्यामागात् । समहं धवलगृहे प्राप्तः स्वजनन्याः कमलायाः पादयोः पतितः तदा जननी श्यामास्यामप्राक्षीत् । मातर्मया देशाः साधिताः, त्वं कथं न हृष्टा ! माताऽवग-मम जिनप्रासादादिषु पुण्यकृत्यैरेव हर्षः स्यान्नान्यथा । ततो वर्षशतायुम॒त्वा प्रति दिन एकैकं प्रासादं कारयन् ३६ सहस्रप्रासादान कारयामास । मातुः पादौ प्रणम्यैव जिमति ।
इति प्रासाद कारणपुण्यं सम्प्रतिकथा ॥२७६।।
[277 ] अथ चन्द्रकथा । कल्याणपुरे चन्द्रभीमौ द्वौ सोदरौ वसतः स्म । क्रमात् चन्द्रो निःम्बोऽभूत् । भीमो महेभ्यो जातः । चन्द्रो यदाऽन्यगेहेषु अन्येषां सेवां कृत्वा निर्वाहं करोति तदा भीमोऽवग-त्वमात्मनो गृहे तिष्ठ, यद्विलोक्यते तद्ग्राह्यं । चन्द्रस्ततो भ्रातृगृहै कर्म कृत्वा निर्वाहं कुरुते ।
. एकदा रात्री जलदे वर्षति भीमोऽवग्- चन्द्र ? त्वं क्षेत्रे गच्छ। तत्र केदारेभ्यो जलं निगच्छत् त्वया संभाव्यते तेन तत्र पालिबन्धनीया । चन्द्रो दध्यौ-यद्यहं नाधुना गमिष्यामि तदा निर्वाहो मे दुःशक इति ध्यात्वा क्षेत्रे गतः । केदाराणां स्फुटन्तीः पालीबनतो नरान् वीक्ष्य चन्द्रोऽप्राक्षीत्-के यूयं, ते प्रोचुः-वयं व्यस्तरा भीमस्य कामुकाः स्मः । भीमस्य पुण्याकृष्टाः
28
26
"Aho Shrutgyanam"