________________
10
द्वितीयोऽधिकारः पापनिष्कन्दनं धर्म-सदनं कारयन्ति ये।
तारयन्ति भवाब्धेः स्वं, तेजनाः कुलतेजनाः ॥१॥ एकदा श्रीपत्तने जयसिंहभूप सर्वव्यापारकृत् ५०००० तुरङ्गाधिपतिः श्री श्रीमालज्ञातीयमन्त्रिसान्तः श्रीदेवसूरिगुरुभक्तश्चतुरशीतिसहस्रटङ्ककव्ययेनापूर्व राजधवलगृहसमानगृहं कारितवान् । लोका विलोकितुमायान्ति । श्रीगुरोरेकदा तददीशत् गुरूणामव्याख्याने कारणं पृष्टं मन्त्रिणा, तदा । सौभाग्यनिधानक्षल्लेनोक्त-मन्त्रिन् ! यद्येवंविधा पौषधशाला स्यात्तदा वरं धमेहेतुत्वात् अन्यस्य पापहेतुत्वात गुरुभिन व्याख्यायते, गृहं पापारम्भमयमेव, यतः--
खण्डनी पेषणी चुन्ही जलकुम्भप्रमाननी ।
पञ्चैते तमसां हेतु-स्तेन नो वय॑ते सदा ॥१॥ ततस्तदेव गृहं प्रासुकं सान्तूर्धर्मनिमित्तमकरोत् , एवमन्या धर्मशाला व्यधाः ।
इति पौषधशालायाँ सान्तूप्रबन्धः ॥२७५।। [ 275] अथ प्रासादपुण्ये आम्रकथा । सूघरीकाकचट्यादिपक्षिणोऽपि अनेकशः । कुर्वते स्वगृहं यत्ना-न पुण्यं तत्र जायते ॥१॥ पुण्याय कुर्वते धर्म-शालादि ये जनाः सदा । तेषां स्याद्विपुलं पुण्यं-माम्रभूमिपतेरिव ॥२॥ श्रीरियं पुरुषान् प्रायः, कुरुते निजकिङ्करान् ।
कुर्वते किङ्करी तां ये, तैरसौ रत्नस्सू रसा ॥३॥ एतत् श्रुत्वाऽऽम्रभूपः श्रीवीरप्रासादं कारयामास । तत्र एकोत्तरशतहस्तोचः प्रासादः सार्द्धतृतीयकोटि सुवर्णमयप्रतिमालकृतः तद्रङ्गमण्डपे २१ सुवर्णलक्षा लग्नाः। मूलमण्डपे तु पश्चविंश- 20 तिसहस्राधिकस्वर्णलक्षः, ८११ वर्षे एककोटिसुवर्णव्ययेन श्रीबप्पभट्टिसूरीणां सूरिपदं कारितं तदुपदेशेन श्रीशत्रुजये रैवते च यात्रोद्धाराश्च कारिताः ।
इति प्रासादपुण्ये आम्रकथा ॥२७॥ [276 ] अथ प्रासादकारणपुण्ये सम्प्रतिकथा । श्रीमज्जैनगृहे जिनप्रतिकृती जैनप्रतिष्ठाविधी,
श्रीजैनस्नपने जिनार्चन विधौ श्रीसंघपूजादिके । श्रीजैनागमलेखने च सततं श्रीतीर्थयात्रादिके,
येषां स्वं विनियोगमेति धनिनां धन्यास्त एव वितौ ॥१॥
25
"Aho Shrutgyanam"