________________
10
१५२ ]
प्रवन्धपञ्चशती
[259] अथ अणक्षककुम्भकारकथा । पाटलपुत्रपुरे अणक्षकः कुम्भकारः कस्यापि मोटिमादिवर्यचलनवखपरिधानभूषणपरिधानोच्चजल्पनादि असहमानो नगरानिर्गत्यारण्ये तृणमये कुटीरके तस्थौ । पुरमध्ये नैति । तत्रैकदा नृपः भ्रमन्नश्वारूढो भूपो गतः । तृषा लग्ना, तेन पानीयं पायितो भूपः सन्मानं दत्त्वा पुरीमध्ये आनीय सप्तप्रामदानपुरस्सरं धवलगृहं तस्य वासायादात् ।
इतो राजा तैलिकपुत्री अरण्ये बदरीफलानि चुण्टन्ती सुरूपां वीक्ष्य परिणीतवान् । तयाः सप्तभूमिमयं गृहमदात् । वर्यवेषधरा सखोपरिवृता सुखासनासीना कुम्भकारगृहोपान्ते गच्छन्ती कंचिन्नरं वरवेषं दृष्ट्वा नकं मोटयामास । तां तथा कुर्वन्तीं दृष्ट्वा अणक्षकोऽवग
कल्ले बोरज वीणती, अज्ज न जाणइ खक्ख ।
अडविइं करिसि घर, न सहूं एह अणक्ख ॥१॥ पुनरपि कुम्भकारः पुराबहिर्गवा पूर्ववत्तस्थौ । इति अणक्षककुम्भकारकथा ॥२५९।।
[260) दानसंवादे युधिष्ठिरभीमसम्बन्धः । अन्यायसंभवा श्री-रन्यायेनैव याति सा नियतम् । अर्जुनहानिक्लेशः, केवलमवशिष्यते सुधिया ॥१॥ साकारोऽपि सविद्योऽपि, निद्रव्यः क्वापि नार्थ्यते ।
व्यक्ताक्षरः सुवृत्तोऽपि, द्रम्मः कूटो विवय॑ते ॥२॥ हस्तिनागपुरे युधिष्ठिरस्याने भीमेनोक्तम्--
मूर्खस्तपस्वी राजेन्द्र !, विद्वांश्च वृषलीपतिः ।
उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते ॥३॥ युधि०-- सुखसेव्यं तपो भीभ ! विद्याकष्टं दुराचरम् ।
विद्वांसं पूजयिष्यामि, तपोभिः किं प्रयोजनम् ॥४॥ मोमोऽवग-~~ श्वानचर्मगता गङ्गा, क्षीरं मद्यघटे स्थितम् ।
कुपात्रे पतिता विद्या, किं करोति युधिष्ठिर ॥५॥ इत्यादि ।
भयं लोमस्तथा स्नेह-स्त्रयो दानस्य हेतवे । । ये दातारस्त्रयं मुक्त्वा, धन्यास्ते मुक्तिगामिनः ॥६॥ इति दानसंवादे युधिष्ठिरभीमसम्बन्धः ॥२६॥
15
20
20
25
"Aho Shrutgyanam"