________________
द्वितीयोऽधिकारः
[261] अथ दाने (स्वर्भोगीति) शालिभद्रश्रेणिकभूपसम्बन्धः । स्वर्भोगभङ्गी [भोगी] नृपतिः क्रयाणकं, सुवर्ण निर्माल्यमभूत्सगादिवत् । भूपस्य मानेऽप्यमानचिन्तनं, शालेर्महाश्चर्यकरं चतुष्टयम् ॥१॥
कृत्वा समर्थ्यं यदि वा महर्घ्य, क्रयाणकं श्रेणिकनामधेयम् । यथा तथा मातरिदं गृहाण, प्रमाणमम्चैव किमत्र पृच्छा ॥२॥
शालिभद्रस्य पिता गोभद्रश्रेष्ठी देवलोकं गतः, सम्मोहात्स्वपुत्रस्य दिव्याभरणवस्त्रादि पूरयामास इति स्वगभङ्गी |१|
यदि श्रेणिकभूपः शालिभद्र गृहवीक्षार्थमागतः तदा मात्रोक्तं पुत्र ! आगच्छ गवाक्षादुत्तर तदा शालिभद्रोऽवग्यातागागतं कवाणकं गृह्यतां मूल्येन इति नृपतिक्रयणाकम् |२|
[ १५३
दिनं दिनं प्रति हेमाद्याभरणादीनि दिव्याम्बरादीनि च कूपे क्षिप्यन्ते इति स्वर्णाद्याभर- 10 णानि स्रुगाद्यभूत् |३|
यदा शालिभद्रो यदा श्रेणिकेन स्वोत्संगे निवेशितः तदा भूपाङ्गतापमसहमानो गलद्विदुतनुरभूत् तथा स्वमर्धमासने निवेशितं दृष्ट्वा स्वस्योपरि स्वामीति राजनाम श्रुत्वा मानेऽप्यमानचिन्तनं जातं शालिभद्रस्येति मानेऽप्यमान जातम् |४|
तदा श्रेणिकवचः---
स्नुही महातह्नि - बृहद्भानुर्यथोच्यते । सारं तेजोवियोगेऽपि, नरदेवास्तथा वयम् ||३||
पूर्वं न मन्त्रो न तदा विचारः, स्पर्द्धा न केनापि फलेन वाञ्छा । पश्चानुतापोऽनुशयो न गर्यो, हर्षस्तथा संगमके बभूव ॥४॥
वसुहाण० ||१||
पुरुषाः तीर्थङ्कर- चक्रि- वासुदेव - मण्डलिक-महेभ्यप्रमुख पुरुषाः । इयं भूमिः वर्य पुरुषावतारं विना अरण्यभूमिवत्स्यात् । यदा यदा जिनाद्या आभरणभूताः स्युस्तदा वसुधा भूषिता स्यात् । पुरुषस्याभरणं लक्ष्मीः सुवर्णरत्नरूप्यादि । अरण्ये पर्वते गतं न किंचित् स्यात् । तदेव पुरुषाश्रितं शोभते । पुरुषो हेमादिना शोभते, नान्यथा कृपण श्रीवत् दानस्याभरणं सुपात्रमेत्र दानमित्यादिदाने स्वगीति । इति शालिभद्रश्रेणिकसम्बन्धः || २६१ ॥
[ 262 ] अथ आम्रभूप- बप्यभट्टिगुरुमाननसम्बन्धः ।
"Aho Shrutgyanam"
15
20
25