________________
10
१५० ]
प्रबन्धपञ्चशती पुण्यमेवं प्रमाणं स्या-दगिनां शुभकर्ममिः । क्षीणतेजाः क्रियत्कोलं, तपत्यपि विभाकरः ॥५॥ पुण्यैः संभाव्यते सर्व, सुखदायि सदापतिः ।
तदेव हीनपुण्यस्य, विषवद् दुःखदायकम् ॥६॥ 6 तदा दध्यौ भूपः-अहमनया गवा पशुनाऽपि जितो व्योम्नि उत्पाटितश्च तया एवं ध्यायति स्म । स मया राज्यं त्यक्तं गोवधश्च कृतः । एतदपि पापं जातं मे दुर्गतिदं, यतः
अनासादितपुण्यः सन् , जन्तुर्भवति दुःखितः । विना नीवीं सुदक्षोऽपि, पुमान् सीदति दीनवत् ॥७॥ अधुना क्रियते पुण्यं, मया दुःखात्मना किमु ।
लग्ने प्रदीपने कूपः, खन्यमानः सुखाय न ८॥ एवं ध्यायतस्तस्य देवाङ्गनागताऽवग-पूर्व मदीयेन राज्यं त्यक्तं पश्चाच्चिन्तितं मृति मुक्ता मे वधः कृतः। अधुना किं धर्म कत्तुं शक्नोमि । राजा दध्यौ-केयं मे वक्ति । तावद्देवी जगो अहं त्वद्गोत्रदेवी । त्वत्सत्त्वपरीक्षणं कृतं गोरूपं कृत्वा । कोपो न क्रियते । धर्म कुरु । कथय
मया कुत्र धर्मः क्रियते ? देव्यवग-त्वं गच्छ सर्वतीर्थेषु । अवसरे धर्मस्वरूपं वक्ष्ये । सातिरोऽभूत्। 15 राजा दध्यो-मद्भाग्यं विद्यते यतो देवी प्रसन्नाऽभूत् । ततोऽनेकेषु तीर्थेषु भ्रमतो गतक्रुत्पाव
कस्य कोलकगिरिं गतस्य चित्तं निर्मलमभूत् । इतः कोऽपि सुरः पूर्वभववैरी प्रत्यक्षोऽभूत् । गादापाणिः कोपवान् जगौ । यत्त्वया मत्पत्नी हृता तत्पापं समेतमधुना तदा मौने कृते तेन तमुत्याट्याम्बरे पर्वतगुहायां नीत्वा विविधैबन्धनादिभिस्ताडयामास । ताड्यमानः स पुनस्तेन पर्वताने आस्फाल्यते स्म । तदा स दध्यौ
अहो प्रागुप्तपापद्रोः, पल्लवोऽयमभृन्मम ।
पुष्पं फलं पुनर्भावि, दुर्योनिनरकादिषु ॥९॥ ततस्तं मुक्त्वा स तिरोदधे तस्य प्राग्भवभाग्याव । ततो द्वषरिक्तः पुण्यकृते भूमौ भ्रमन् गोदावरीतटे ययो । तत्र सैव सुरी समेत्यावग-वत्स ! त्वं गच्छ सिद्धाद्रौ । तत्र इत्यादिपापं गमिष्यति तत्तीर्थ सर्वपापहृत् । यतः
यदा शत्रुञ्जये तीर्थे, गत्वा विधीयते तपः । तदा हत्यासमुद्भूतं, पातकं छेद्यते ध्रुवम् ॥१०॥ पापिनाऽपि मनुष्येण, गत्वा शत्रुञ्जयाचले । कुर्वतार्चा जिनेन्द्रस्या-नन्तं पापं निकृत्यते ॥११॥
"Aho Shrutgyanam'