________________
द्वितीयोऽधिकार
गतेस्तैर्घामपञ्चकं दुर्योधनपार्श्वे मार्गितम् । ततः क्रमादेकं प्रामं मार्गितम् । स च दुर्योधनः शूच्यमात्रा भुवं न सेभ्यो ददौ । पश्चायुद्धे जायमाने स्वमरणात्सर्वा मुवं तेभ्यो रदौ । यत्तदुर्योधनस्य मूर्खत्वम् । (४)
शेषेण पूर्व शातवाहनम्याने तुष्टेन प्रोक्तं-त्वया मृन्मयं सैन्यं कारयित्वा गोदावयां मोज्यं ततः सजीवं तद्भविष्यति युद्धं च दृढं करिष्यति । ततो वैरिबलं मृन्मयं सैन्यं कृत्वा जितं तेन । एवं बहुशो मनोरथस्तस्य पूर्णः । एकदा शातवाहनेन वरे दत्ते शेषेण संशयः कृतः ततस्तत्कार्य न सिद्धम् । इति ज्ञातवाहनस्यापि मूर्खत्वम् । (५) इति रामरावणदुर्योधन-कंस-शातवाहनमूर्खपञ्चकसम्बन्धः ॥२५५॥
[256 ] अथ तीर्थसेवाफले गिरिकुण्डसम्बन्धः । चन्द्रपुरे गिरिकुण्डभूपोऽनेकपापकृत् न मन्यते देवगुरुमातृपितन । परस्त्रीपरधनहरणपापर्धि. 10 चौर्यादि करोति स्म । जीवान् घ्नतस्तस्य रोग उत्पन्नः । एकदा यावत्परद्रोहपरस्त्रीहरणं ध्यायति तावदेकः श्लोकः व्योम्नि श्रुतः
धर्मादधिगतैश्वयों, धर्ममेव निहन्ति यः ।
कथं शुभायतिर्भावी, स स्वामिद्रोहपातकी ॥१॥ एतदर्थ ज्ञात्वाऽवबुद्धः सन् अचिन्तयदिदम्-अहो मया बहूनि पापानि कृताति, तेभ्यः कथं 15 छुट्टनं मे भविष्यति । तत्पापच्छिदेऽद्रिजलपाताय ययौ । स यावद्वहिर्ययौ तावद् गां पश्यति स्म । सा च शृङ्गेण नन् घ्नन्ती तटान्युत्पाटयन्ती संमुखमायान्ती खङ्गमुत्पाट्य तां हन्तु दधाव । ततो गौरपि तं हन्तुमधावत् । तदाऽसिना भूपेन तस्यां द्विधा कृतायां काचित् स्त्री निर्ययो । सा च स्त्री भीषणाङ्गी कर्तिकां करे कुर्वती निष्ठुराक्षरेण भूपं प्रत्याह-~
अरे त्वया पशुर्दीना, हता गौरववर्जिता ।
यद्यस्ति काऽपि ते शक्तिः , तद्युध्यस्व मया सह ॥२॥ श्रुत्वैतत् राजा ता प्रत्यवग्--
भवता (ती) युवती काचित कदलीदलकोमला ।
अहं तु क्षत्रियः शूरः, शास्त्रशस्त्रविशारदः ॥३॥ गौरवग्-यदि ते शक्तिः स्यात्तदा युद्धं कुरु । श्रुत्वैतत् भूपः सासिस्ता जघान । ततो 25 वत्सोऽपि शृङ्गेण तमहन् । अखण्डिताङ्गो गौजेगी ।
तावद्वलं महस्ताव-तावत्कीर्चिरखण्डिता । यावत्पुराकृतं पुण्यं, न म्लानिमधिगच्छति ॥४॥
20
"Aho Shrutgyanam"