________________
१४८]
प्रबन्धपश्चशती . ततः सा पश्चात्पत्युहे गता | ततः साहसं कृत्वोर्ध्व तस्थौ । ततो दूरं स्थित्वा तस्याः कणयोरन्तरे बाणस्तथाक्षिप्तो यथा न मनाक्पीडा बभूव ।
इति कुलाचारविषये क्षत्रियपत्नीसाहससम्बन्धः ॥२५३॥
[254] अथ दयायां विप्रमीनसम्बन्धः । कस्मिंश्चिद्वेलाकूले जलवीचिप्रेरितो वारिधेर्महानेको मत्स्यः समागात् । जलं पश्चाद्गतम् मीनरतत्र तस्थौ। तत्र तदा दुर्भिक्षे घोरे सति धान्याऽभावात् क्षुधात्तों लोकः कुठारैमत्स्य छेदंछेदं स्वं निर्वाहं चक्रे, तथापि महाकायत्वान्न म्रियते ।
अनावसरे पत्नीप्रेरितः कोऽपि विप्रः क्षुधातों मीनमांसं लातुं ययौ । तं मीनं छेदयन्तं बहुजनं वीक्ष्य विप्रस्य कृपाऽभूत् । अहमेनं न छिनद्मि पापहेतुत्वात्तदा तस्य दयां वीक्ष्य कोऽपि 10 देवो मीनकायमधिष्ठायावग-भो विष ! मामन्ये लोकाश्छेदंछेदं मांसं ग्रहणन्ति
न गृहाण । विप्रोऽवग--मम दयास्ति परं भार्यया प्रेरितोऽत्रागां मांसाय परमधुना पुनदयोत्पन्ना मीनोऽवग-तव कृपाऽस्ति यदि तदा तेन पुण्येन त्वमग्रेतनभवे सुखी भविष्यसि । अयं पापी लोको मां मारयन् दुःखी भविष्यति । अहं मृत्वा अकामनिर्जरातपसाऽत्रैव पुरे राजपुत्रः पुरन्दराहो
भविष्यामि । त्वं च ममोपाध्यायो भावी । अहं प्राग्वैरान् लोकान् कदर्थयिष्यामि । तदा त्वयाऽई 15 वारणीयः पापात् । एवं प्रोच्य देवे गते स मीनो मृत्वा तत्र पुरे राजाऽभूत् । तं भूपं लोकं
दण्डयन्तं वारयामास । विप्रो मीनमारणसम्बन्धं यदा प्राह तदा राज्ञो जातिस्मृतिर्जाता। पश्चादवः स्मृतः । ततो विशेषतो राजा विप्रश्चदयाधर्म चक्रतुः । ततो मृतौ स्वर्ग गतौ ।
इति दयायां विप्रमीनसम्बन्धः ॥२५४॥
[255 ] अथ रामरावणदुर्योधनकंसशातवाहनमूर्खपञ्चकसम्बन्धः । 20
श्रीरामो रावणः कंस-स्तुर्यो दुर्योधनो नृपः । एषा चतुष्टयी मूखों, पञ्चमः शातवाहनः ॥१॥ कुरङ्गः काञ्चनः पूर्व, न दृष्टो न श्रुतः क्वचित् ।
दृष्ट्वा दधाव तं रामो, यत्तन्मूर्खत्वमुच्यते ॥२॥ सीतायाः परितो यस्य [ येन ] रेखामुल्लङ्घयितुं कोऽपि देवो वा दानवो वा न शक्नोति 25 तां तादृशीं रेखां दृष्ट्वाऽपि कामपीडितो रावणो भिक्षुरूपधरो भिक्षायाचनाकपटं कृत्वा सीता यज्जहार तद्रावणस्यापि मूर्खत्वम् । (२)
देवक्याः पाणिग्रहे देवक्याः सप्तापत्यानां मध्यादेकेन स्वमरमं श्रुत्वाऽपि यत्कंसो देवकीमेव न मारयामास तत्कस्यापि मूर्खत्वम् । (३)
पञ्चभिः पाण्डवैर्महाबलभुजाशालिद्वादशवर्षाणि वनवासे स्थितम् । पुनः प्रतिज्ञा पूरयित्वा
"Aho Shrutgyanam"