________________
१४२ ]
प्रबन्धपती
विस्मृता ज्ञात्वा तां नेतुं गृहे समागात् । तदा दीपतैलेन पुमानुपानही चोपडयन्दृष्टः अष्टश्चत्वं कः ? स प्राह-अहं दरिदो तव किंकरः। यत्र त्वं यास्यसि तत्र यास्वामि
यथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म, कर्तारमनुधावति ॥१॥ 6 एतत् श्रुत्वा स तत्रैवोवास । इति दारिद्रसेवकसम्बन्धः ॥२३९॥
[240 ] अथ बुद्धौ श्रेष्ठिस्नुषाकथा । एकदा श्रीपुरात्स्वस्नुषाया आनयनाथ श्रेष्ठो ययौ । लक्ष्मीपुरे ता स्नुषां गृहीत्वा पश्चादागच्छन् वीरपुरे कस्यचित् श्रेष्ठिनो गृहे वासार्थ गतः । तस्य श्रेष्ठिनः पत्नीद्वयं विद्यते । तदा
श्रेष्ठिपत्नी प्रथमा जगौ-अत्र स वासं वसति य आवाभ्यां वादं करोति । तदा श्रेष्ठी स्नुषा 10 प्रत्यवग् , अन्यत्र गृहे गम्यते। ततःस्मा मो श्वशुर ! त्वं शय्यायां स्वपिहि अहं वाद
करोमि । ततः श्रेष्ठिनि सुप्ते श्रेतिततः यस्ता यदी तदा तत्रत्यश्रेष्ठिपत्नी प्रथमा महिषीं दोग्धुमुपविष्टा । ततस्तदा श्रेष्ठिस्नुषा द्वितीया निष्ठिपत्नी प्रत्यवग-किं तवेयं सपत्नी विद्यते ? तयोक्तंत्वया कथमिदं ज्ञातम् । श्रेष्ठिस्नुषाऽवग्-तवेयं सपत्नी पृष्टि दत्त्वा महिषी दोग्धुमुपविष्टा । ततो
मिथोऽत्यन्तं कलिं कर्तुं लग्ने इति द्वितीययोक्तं-त्वं मम पृष्टि दत्से । एवं द्वयोः सपल्योरेव 16 स्त्रियोर्विवादं कुर्वत्योः प्रभातं जातम् । ततः श्रेष्ठी चचाल । एवं पुरुषः स्त्रिया बुद्धथा स्वं कार्य करोति ।
इति बुद्धौ श्रेष्ठिस्नुषाकथा ॥२४०॥
[241 ] वस्खदाने कथाचूडभूपकथा । शुद्धानवस्त्रपात्रादि, ददानो यतये जनः ।
लभते सुखसङ्घातं, कथाचूडमहीशवत् ॥१॥ 20 . श्रीपुरे कथाचूडो भूपश्चतुर्दशसहस्रभूपहस्तिचतुर्देशस्वामी बभूव । एकदा नृपश्चन्द्रपुरे समा
गात् । तत्र देवगृहासन्नस्थमेकं गृहं दृष्ट्वा मूच्र्छा च प्राप भूपः । तदामात्यैर्वातक्षेपाढ़ीना सचेतनीभूतो भूपो वर्यमेकं स्वकृतं श्लोकमाचष्ट
मार्गागतचतुः साधु-प्रवरेभ्यः पृथक्पृथग् ।
वस्त्रचतुष्टयं दत्वा, राज्यं प्रापन्महन्नृपः ॥२॥ 25 मन्त्रिभिः प्रोक्तमस्य श्लोकस्यार्थो विस्तरादुच्यता । ततो राजा जगौ-अस्य सद्मनोऽहं
स्वामी कौटुम्बिको धीरो पुराऽभूवम् । एकदा मम क्षेत्रपार्श्व साधुचतुष्टयमुत्सूरे गच्छन्तं दृष्ट्वा धीर उत्पन्न कृपः स्वगृहे समानीयोपाश्रयं ददौ । ततो मध्याह्ने शुद्धमाहारं प्रतिलाभ्यैकैकमक्री पत्रं पृथक्पृथग्ददौ । दानं सहक्षिणमेव देयं सद्भिः । यतः
"Aho Shrutgyanam"