________________
द्वितीयोऽपिका
[ १५१
[286] अथ पापशुद्धोपरि झण्डसम्बन्धः। एकेन कौटुम्बिकेन पुण्यहेतोः स्वगवा जनितो वत्सो गोवर्गे मुक्तः । स च शण्डोऽभून्मत्तः। स च शान्तात्मा पुरमध्ये तिष्ठति कस्यापि शृङ्गेण न हन्ति । तस्य पदोरधो जनो याति तथापि विघ्नं तस्य न चक्रे । ततः साधुशण्ड इत्यभूद् घोषः । ___ इतस्तत्रैकस्य श्रेष्टिनो दुश्चारिणी पल्यभूत् । श्रेष्ठी तु पुण्यवान धर्म कुर्वन् कर्मक्षयाय B शून्यगृहादौ कायोत्सग चक्रे ।
इतः पल्या दुश्चारिण्या ध्वान्ते निबिडे सति श्रेष्टिपदोरुपरि शय्या मण्डिता। श्रेष्ठिचरणो विद्धः । श्रेष्ठी तु पूर्वकर्म स्मरन् न क्रोधं चक्रे, मृतश्च स्वर्ग ययौ । तं श्रेष्ठिनं मृतपतिं ज्ञात्वा पल्या ध्यातं, लोकाने किमुत्तरं दास्यते । ततस्तया तस्य झण्डस्य शृङ्गं रुधिरेणावलिप्तं कृतं तया । ततः शण्डस्य श्रेष्ठिमारणकलङ्कस्तया दत्तः । ततो लोकाः प्रोचुः-अयं शण्डः पापी 10 यतो तेन पापिना श्रेष्ठी हतः । ततस्तेन शण्डेन भूपमात्यलोकसाक्षिकं तप्तगोलकं जिया लात्वा स्वं शुद्धं चक्रे । ततः सा निर्झटिता अधिपती ।।
इति पापशुद्धोपरि शण्डसम्बन्धः ॥२६॥
[ 237 ] अथ कृतघ्नतायां गृहोलिकासम्बन्धः । एकस्मिन्स्थाने गृहोलिकाया नेने मलोऽभूत् । तेन मलेन सा लिप्ताक्षी न पश्यति बुभुक्षिता 16 मृतप्राया जाता।
इतो मक्षिका स्वभक्ष्यबुद्धया तस्या नेत्रमलमपाचक्रे । ततः सा गृहोलिका तामेव मक्षिका जघान | इति कृतघ्नतायां गृहोलिकासंबंधः ।।२३७॥
[238] अथ परप्रत्यये वेश्यासम्बन्धः। अथ कस्यचिच्छेष्ठिनः पुत्रो वेश्यया द्रव्यलक्षेण वं कौशल्यं शिक्षितः । ततस्तया रात्री १० तस्य परीक्षायै प्रोक्तं-घोलवटकानि ममानय । ततस्तेन गईभमलपिण्डीरानीता।।
पुनरेकदा तस्य श्रेष्टिपुत्रस्य भोक्तुमुपविष्टस्य वेश्यया थूत्कृतम् । स पश्चात् स्थितो यदा तदा वेश्यामात्रा शपथपूर्व प्रोक्तं-मम पुत्री किमेवं करोति । ततः स यदा भोक्तुं लग्नः तदा तया चुटकेन शोर्षे आहतः, प्रोक्तं च नयनेन यदृष्टं तद्वचनेन किं मन्यते ? तदा क्षमा स चक्रे । ततो विनीतं तं मत्वा तस्मै ततस्तया वर्याः कलाः क्षिक्षिताः ।
25 इति परप्रत्यये वेश्यासम्बन्धः ॥२३॥
[239] अथ दारिद्रसेवकसम्बन्धः । एको दरिद्री गृहे दीपं मुक्त्वा भिये अन्यत्र गन्तुं चचाल यदा तदा स्वां यष्टि गृहे
"Aho Shrutgyanam"