________________
प्रबन्धपश्चशती
10
मानक साधिकं दास्यामि । ततः स बटुको वर्याणि पुष्पाण्यादाय दत्ते श्रेष्टिने । सबका स्वकणैः पुष्पाणि लात्वा प्रभुं पूजयामास । तेन पुष्पेण स्वर्ग गत्वा श्रीनिकस्य भूपस्यामबकुमारः पुत्रोऽजनि । इति देवपूजयामभयकुमारसम्बन्धः ॥२३२॥
[233] अथ सुपात्रदाने श्रेष्ठसम्बन्धः। 6 कस्मिंश्चित्पुरे दुष्काले जाते पात्रापात्रादिविचारं विना दानं श्रेष्ठी दत्ते । तदा श्रेष्ठिना
एकस्य मासिकस्य दानं ददौ । समात्सिकस्तेन धान्येन जालकं चक्रे । ततो जले जालकं क्षिप्त्वा बहून् मत्स्यान् नीत्वा विक्रीय धनी जातः । तस्य कुटुम्बं ववृधे । जालकं यत्नेन रक्षति स्म सः। तस्य श्रेष्ठिनोऽङ्गे कुष्ठं जातं । तत्र ज्ञानी समागात् । श्रेष्टिना वन्दितः पृष्टश्च रोगोत्पत्तिकारणम् । ततः केवली जगौ-त्वया मैनिकाय दानं ददे, स च मैनिको नाधुना धनी भूत्वा बहुपापं चक्रे तज्जालं यदि विनश्यति तदा स पापं तेन जालकेन न करोति ततस्तव नीरोगता भवति । ततस्तेन श्रेष्ठिना मिषं कृत्वा जालकं लात्वा च वह्नौ भस्मीकृत्य तेन भस्मना स्वाङ्ग लूषयामास । श्रेष्ठी ततः नीरोगो जातः धनी च मैनिको निधनः । ततः स्वर्गगत्वा मुक्तिं यास्यति ।
इति सुपात्रदाने श्रेष्ठिमै निकसम्बन्धः ॥२३३॥
[234] अथ पापदाने मैनिकसम्बन्धः । 15 एकस्य श्रेष्ठिनो दुष्काले दानं ददतः कालो गच्छति । अत्रान्तरे एकस्य मैनिकस्य भोजनं
दत्तम् । तत उत्थाय मैनिकः प्राह-भो श्रेष्ठिन् ! तवाहारेण मम कुटुम्बं जीविष्यति यतोऽहं तव भोजनेन जले जालक क्षिप्त्वा मत्स्यानानीय विक्रीय विक्रीय स्वकुटुम्बं जीवयिष्यामि । ततः स श्रेष्ठी दध्यौ । मम पापं लग्नमतस्तथा करिष्ये यथाऽग्रतः पापं न चलति । ततः स
मैनिकः काष्ठागरे क्षिप्तः स्वसेवकपाश्र्वात तावद्यावत्स्वदत्ताहारं जीर्ण ततः कयित्वोक्तं 20 त्वं तु पापी तैनेवं मया कृतम् । ततः स मैनिको जीवहिंसानियमं जग्राह । श्रेष्ठिना ततो धनदानात्संमानितः । इति पापदाने मैनिकसम्बन्धः ॥२३४||
[235] अथ उचितदाने याचकसम्बन्धः । एकदा एकेनापि राज्ञा याचकः पृष्टः 'तत्तन्न' इति शब्देन गीते किमुच्यते ? ततोऽर्थी राज्ञोऽग्रे जगौ
प्रापं प्रापं धनं भूरि, स्वर्णरूप्यादिकं सदा ।
धनिभ्योऽर्थिगृहे नूनं, तन्नास्ति यन्न भुज्यते ॥१॥ तन्न तन्न यहानिना दत्तं तद्गृहे चिरं न तिष्ठति इति तत् न । तत् न इत्युचितवचः श्रुत्वा राजा तस्मै याचकायोचितं बहुदानं ददौ ।।
इति उचितदाने याचकसम्बन्धः ॥२३५ ।।
25
"Aho Shrutgyanam"