________________
द्वितीयोगार
[१४३ त्रिपञ्चसंख्याशततापसानां, तपाकृशानामपुनर्भवाय ।
अक्षीणलब्ध्या परमानदाता, स गोतमो यच्छतु वाञ्छितं मे ॥३॥ ते साधवस्ततो विहताः अन्यत्र । धीरः कौटुम्बिकस्तेन पुण्येन क्रमान्मृत्वा चतुर्देशचतुःसहस्रशस्वामी बभूव । मन्त्रिणा जगुः-स को भूपः । राजोवाचाऽहमेव । मन्त्रिणो जगु:-कथं त्वया ज्ञातम् ? ततो भूपः स्वजातिस्मृतिभवनतः पश्चाद्भवं जगौ 1 ततश्चमत्कृता भूपेनोक्ता 5 मन्त्रिप्रमुखा लोकाः सर्वे धर्मकरणतत्परा बभूवुः । ततः कथाचूडभूपः शुद्धान्नपानवस्त्रादि साधुभ्यो ददन् क्रमात् शुद्धां भावनां भावयन् गृहवासेऽपि केवलज्ञानं प्राप्य देवतादत्तयतिलिङ्गो प्रबोध्य भव्यजीवांश्चिरं मुक्तिं ययौ । इति वस्त्रदाने कथाचूडभूपकथा ॥२४१॥
[242] अथ शुद्धानपानवस्त्रदाने श्रीधरभूपकथा । कस्मिंश्चिद्ग्रामे पश्चशती रजकानां चास्ति । समृद्धाश्च पञ्चशतप्रामाणां स्मामिनः सर्वे 10 घोटकारूढा गच्छन्त्यागच्छन्ति कस्याप्याज्ञां न धरन्ति ।
क्रमात्तत्र श्रीपुरात श्रीधरभूपसैन्यं तान् जेतुं तत्रागात् । तदा सर्वेऽपि रजकाः संना बहिनिर्गताः। बहिर्नेजकान्' स्वस्य स्वस्योत्तारेषु दत्त्वा स्थिताः । आडम्बरपूर्वकं तदा तत्र वैरिभूपेन स्वमन्त्रिणः प्रेषिताः । यस्य रजकस्योत्तारे मन्त्रिणो गच्छन्ति । स च वक्ति-अहमेव मुख्योऽस्मि । ततो ज्ञातं तैनेजे नेजे मोरो विद्यते । ततस्तैः स्वस्वामिपाधं गत्वोक्तं नेजे नेजे मोरो 15 विद्यते । ततः संना वैरी रजकैः समं युद्धं व्यधात् । ततो नष्टाः केचिद्रजकाः, केचित् हताः । ततः श्रीथरो भूपः स्वामाना ग्राहयित्वैकच्छत्रं राज्यं करोति स्म । हस्तिनां शतत्रयं घोटकानां लक्षाष्टकं जातम् । ततोऽन्यदा चन्द्रसूरिपाइँ स्वं पाश्चात्यं भवं पप्रच्छ । मया कि पुण्यं कृतं ? गुरुराह
त्वं पूर्वभवे महेन्द्रपुरे वणिग निस्वो मेघाहोऽभूत् । तत्रैकदा साधुद्वयं जीर्णवस्त्रयुगं समागात् । ताभ्यां वस्त्रद्वयं दत्तं शुद्धभावात् । ततः कालक्रमान्मृत्वा त्वं श्रीधरभूपोऽभूः । 20 एतत् श्रुत्वा भूपो विशेषतो यतिभ्यः शुद्धान्नवस्त्रादि ददौ । ततो मृत्वा श्रीधरभूपश्चतुर्थ स्वर्गे गत्वा पुनभूपो भूत्वा सर्वकर्मक्षयान्मुक्ति ययौ ।
इति शुद्धानवस्त्रदाने श्रीधरभूपकथा ॥२४२।।
[ 243] अथ वस्त्रदाने मदनभूपकथा । अन्यदा राजा चन्द्रपुरे गत्वाऽन्तस्तत्रैकं जीर्ण कुटीरं दृष्ट्वा जातिस्मृति प्राप । ततो मन्त्रि. 26 पृष्टो भूपो जगौ
मयैकवस्त्रदानेन सुसाधोः पूर्वसंसृतेः । अत्रेदं विपुलं राज्यं, प्राप्तं कुम्भ्यादिसंयुतम् ।।१॥
"Aho Shrutgyanam"