________________
द्वितीयोऽधिकार
[ १३७ तत्सखी राजपुत्री लग्ने । द्वे अपि यातस्तस्य वरणार्थम् । मार्गे गाथामेका श्रृणुतः स्मेति
जइ फुल्ला कणी[णि]यारया चूयय !, अहिमासयंमि थट्टमि [धुझुमि] । तुह न खमं फुन्लेड, जइ पच्चंता करंति इमराई ॥१॥
यदि कर्णिकाराद्या नीचाः पुष्पिताः तदा तव भूतोत्तमस्य पुष्पितुं न युक्तम् , श्रुत्वेति राजपुत्री मम रत्नकरण्डको विस्मृत इति छद्मना कुविन्दसुतायै निवेद्य पश्चादागता । तस्मिन् । दिने सामन्तपुत्राय दत्ता पित्रा सुखिनी बभूव । स च श्वशुरबलेनारीन् जित्वा सुख्यभूत् । कुविन्दपुत्री तेन धूर्तेनाङ्गोकृता दुःखिनी जाता ।
भावे-आधा भूपपुत्रीतुल्यो चारित्री साधुः, कुविन्दपुत्रीतुल्यो धर्मः, चारित्री साधुः, धूर्ततुल्या विषयाः, गीततुल्याचार्येण मम तु शिष्टो निवृत्तः सुखी जातः । यथा द्रव्यभावनिवृत्तो क्वापि गच्छे एकः साधुस्तरुणो ग्रहणधारणसमर्थ इति सूरिप्रियः सोऽन्यदाऽशुभकर्मोदयेन 10 प्रतिगच्छन् श्रृणोति
तरियव्वा च पइन्ना, परिअन्वा समरे समत्थेण ।
असरिसजणतुन्ला वा, न हु सहिअव्वा कुलपसूएणं ।। श्रत्वेति स प्रबुद्धो निवृत्तः । इति पञ्चमः ॥२२५॥
[226] निन्दायां चित्रकरसुतादृष्टान्तः षष्ठः । चित्रकरसुता बुद्धिमती केनचिद्राज्ञा परिणीता बुद्धया षण्मासान् नृपं स्वावासे स्थापितवती सा। सपत्न्यच्छिद्राणि वीक्षन्ते । सा चापवरके प्रविश्य पुराणमणिचीवराणि पुरः कृत्वा आत्मानं निन्दति इति त्वं चित्रकरसुतासि । एतद्वस्त्रादि तव पितुः सम्बन्धी, एवं प्रतिदिनं वखाभरणादि पितृसत्कमये मण्डयित्वा तां सपत्नी जल्पन्तीं दृष्ट्वा सपल्यो भूपस्याने प्रोचुः-एषा तव कामग कक्षुमेवं करोति वक्ति च। ततो राज्ञा रहःस्थितेन स्वं निन्दन्तीं शुभकर्मोदयादहं । राज्ञः 20 पल्यभूवमेतच्च वनादि पितृसत्कम् , एतच्च राक्षः सत्कम् , त्वया च कस्याप्युपरि द्वेषो न कार्यः । श्रुत्वैतत्पत्नीवचो भूपस्तां पट्टराझी चक्रे । भावे साधुनैवमात्मा निन्दितव्यः । इति आत्मनिन्दायां षष्ठः ॥२२६॥
1227 ] अथ गर्दायां पतिमारिकाया दृष्टान्तः सप्तमः । कस्यापि वृद्धस्योपाध्यायस्य तरुणी पल्यभूत् । नर्मदा परकूलवासिगोपरता नर्मदा तीर्खा 26 तत्र भोगं तेन समं भुक्ते स्म । सा गृहे तु निछारके गच्छन्ती काकेभ्यो बिभेति । नयां च कुतीर्थानि जानाति च इत्यादि ज्ञात्वैकेन छात्रेणोक्तं तां प्रति
दिवा विमेति काकेम्यो, रातो तरति नर्मदाम् । कुतीर्थान्यपि “जानासि, जलजन्वक्षिरोधनम् ॥१॥
16
"Aho Shrutgyanam"