________________
१३६ ]
प्रबन्धपञ्चशती
भावे दृष्टान्तस्योपनयो यथा-राजस्थानीयैरहद्भिः प्रासादः सूत्रस्थानीयः संयमो रक्षणीय इत्यादिष्टे ग्राम्यसाधुना एकेनातिक्रान्तः स दुःखभागी । यः प्रासादेन संयमं गतः प्रतिनिवृत्तो - ऽकरणतया प्रतिक्रमति स शिवभागी । इति प्रथमः ॥२२१॥
[222] अथ प्रतिचरणायां प्रामादेन दृष्टान्तो यथा--- 5 कश्चिद्वणिगर्थसमृद्धः प्रासादो यत्त्वयाचिन्त्य इति भार्याय उक्त्वा देशान्तरमगात् । तया
देहमण्डनादिपरया स प्रासादः शनैः शनैः पतितो न प्रतिचरितः । आगतेन वणिजा सं पतितं दृष्ट्वा पत्नी निःसारिता गृहात् । यथा न दृष्टा । तेन पुनरन्यः प्रासादः कारितः । अन्या पत्नी परिणीता च 1 पूर्ववत्तं प्रासादं नवीनं पल्यै सम्भाल्य दूरे गतः । पुनरागतः सन् तं प्रासादं तया प्रतिचरितं दृष्ट्वा गृहस्वामिनी कृता । एषा द्रव्यप्रतिचरणा । भावे वणिकस्थानीय आचार्यः, प्रासादः संयमः, इत्यादि पूर्ववत् ज्ञेयम् ।
इति द्वितीयः ।। २२२॥ [223] अथ तृतीयः-(परिहरणायां) दुग्धकाये दुग्ध-कावडिः । एकः कुलपुत्रः, तस्य द्वे भगिन्यौ स्तः । स च परीक्षां विना न कस्यापि स्वां भगिनी दत्ते । तस्य पुत्रीयाचनाय द्वौ नरौ समायातौ । कुलपुत्रेणोक्तं-यो दक्षो भविष्यति तस्मै दास्ये 15 पुत्रीम् । ततस्तेन कावडियुक्तौ द्वौ दुग्धमानयनाय गोकुले प्रेषितौ । तत्र गस्वा दुग्धघटौ दुग्धेन भृत्वा कापोतीमादाय निवृत्तौ ।।
तत्र द्वौ पन्थानौ, एकः परिहारेण समोऽस्ति, अपर ऋजुर्विपमश्च । सत एकस्य ऋजुना प्रविष्टस्य प्रस्खल्यैकघटभङ्गे द्वितीयोऽपि भग्नः । द्वितीयो दूरमार्गेण पर्वतपरिहारेणाखण्डघटः समायातः, तस्मै पुत्री दत्ता । तेन एषा द्रव्यपरिहरणा भावे कुलपुत्रस्थानीया अर्हन्तः, दुग्धं चारित्रं, कन्या सिद्धिः, गोकुलं मनुष्यभवः । इति तृतीयः ॥२२३॥
[ 224 ] वारणायां विषभोजनतड़ागेन दृष्टान्तः चतुर्थः । एको राजा परचक्रागर्म ज्ञात्वा ग्रामेषु दुग्धदधिभोज्यादिषु तटाकादिषु, वृक्षपुष्पफलादिषु च विषयोगं कारितवान् । आगतेन राज्ञा तथा झाते घोषणया वारितं सैन्यम् । ये वारिता भृत्या राज्ञोक्तमङ्गीचक्रुस्ते सुखिनोऽभूवन , अपरे मृताः । भावे विषानपानसदृशा विषयाः, भूपतुल्या गुरवः, भृत्यसमा भव्यजना ये गुरुक्तमङ्गीचक्रुस्ते सुखिनोऽन्ये तु न ।
इति चतुर्थः ॥ २२४ ॥ [225] अथ-द्वयोः कन्ययो राजसुता-चित्रकरसुतयोर्मध्ये पूर्व निवृत्ती
राजकन्यया दृष्टान्तः पञ्चमः । एक: शालापतिस्तस्य शालायामेको धूर्तो मधुरस्वरेण गायति । तेन समं शालापतिपुत्री
20
25
"Aho Shrutgyanam"