________________
द्वितीयोऽधिकारः
योऽस्य वप्ता स मे भ्रोता, माता का यदावयोः । अस्य तातश्च मे तातो, भर्ता मातुरभूदिति ॥७॥ पितृव्यस्य पितेत्येन-मुद्घोषयामि पितामहम् । परिणीताऽहममुना-ह्यस्मीति पतिरेष मे ।। ८ ।। ममैष तनुजन्मा च, सपत्नीकुक्षिभूरिति । देवरस्य पितेत्येष, भविता श्वशुरोऽपि हि ॥९॥ याऽस्याम्बा सा ममाप्यम्बा, तया जातास्म्यहं यतः। पितृव्यकस्य मातेति, मम सापि पितामही ॥१०॥ भ्रातृजायाऽपि भवति, मद्भातुर्गृहिणीत्यसो । सपत्नीतनयस्यैषा, गृहिणीति वधूरिति ॥११॥ मातापत्युर्मदीयस्ये-त्येषा श्वश्ररसंशयम् ।
भर्तुर्भार्या द्वितीयेय-मिति जाता सपत्न्यपि ॥१२॥ ततः कुबेरदत्तभ्राता कुबेरसेनामाता च कुबेरदत्तायतिनीपाश्र्वे पुत्र-पुत्री-भ्रातृ-पितृमात्रादि १८ नात्रकसम्बन्धं स्वस्य ज्ञात्वा प्रबुद्धौ! कुबेरदत्तः गृहीतव्रतः स स्वर्गमगाद । मुद्रिकादर्शनेन मातुरपि प्रबोधः सम्यक्त्वादिप्रतिपत्तिश्च ।। इति कुबेरदत्त-कुबेरदत्ताकथानकमष्टादशनात्रकसम्बन्धगर्मितं समाप्तम् ॥२२०॥
[221 ] अष्टविधप्रतिक्रमणस्य दृष्टान्तानि-प्रथम अध्वदृष्टान्तम् । पडिक्कमणं पडियरणारे , परिहरणारे वारणा निवत्ती५ य ।
निंदा गरिहा सोही , पडिक्कमणं अट्ठहा होइ ॥१॥ प्रतिक्रमणे दृष्टान्ताः
अद्धाणे' पासाए दुद्धकाय विसभोअणतलाए ।
दोकनाओ५ पइमारिया य, वत्थे अ अगए अ॥२॥* अध्वानो नृपेण प्रासादार्थ दत्तस्तत्रान्तर्गच्छद्ग्राम्यद्वयस्य निषिद्धस्य एको धृष्टत्वात्को दोष इति वदन नृपानुगैर्हतः । द्वितीयस्तु तैरेव पदैर्वलमानो मुक्तः सुखी जातः । एवं द्रव्यप्रतिक्रमणं ।
आवश्यक नियुक्ती, गा० नं० १२३९ ।
16
20
26
"Aho Shrutgyanam"