________________
१३४ ]
प्रवन्धपश्चशती
वन्दिष्यसि ततश्च्युत इहभरते भद्दिलपुरे शतानन्यभूपस्य धारिणीकुक्षिभूतः शतबलाद्धः पुत्रो भविष्यसि । तत्र धर्मवान् भविष्यति । त्वां राज्ये न्यस्य शतानन्वो स्वर्ग गमिष्यति । त्वयि शतलभूपे राज्यं कुर्वति तत्र श्रेणिकभूपजीवः पद्मनाभः सर्वज्ञः तत्रागमिष्यति । उपदेशं श्रुत्वा प्रबुद्धः शतबलो राज्ये पुत्रं न्यस्य दीक्षां ग्रहोष्यति । तत्र गणधरो भविष्यति । केवलज्ञानं 5 प्राप्य जीवान् प्रबोध्य भवान् भुक्ति गमिष्यसि ।
इति कुमारपालपश्चाद्भवसम्बन्धः ॥ २१९॥
[220 ] अथ कुबेरदत्त - कुबेर दत्ता कथानकमष्टादशनात्रक गर्भितम् ।
मथुरायां वेश्या कुबेरसेना मातुरुप रोधादेकादशदिने खापत्ययुग्म कुबेरदत्तर -- कुबेरदत्तार नामाङ्कितमुद्रिकाद्वयसहितं काष्ठपेटायां प्रक्षिप्य यमुनायां प्रवाहयत् । सा वहमाना सूर्यपुरे10 ऽगात् । इभ्यपुत्राभ्यां गृहीता । समये तयोरेव द्वयोः कुबेरदत्ता - कुबेरवत्तयोर्विवाहोऽभूत् । असम्बद्धे एव मुद्रिकात उपलक्षणं भ्रातृभगिनीभावं मुद्रिकाक्षरतो ज्ञात्वा देवनत्यवसरे निजनामाक्षराङ्कितमुद्रादर्शनात् कुबेरदत्तकुबेरदत्ताभ्यां भ्रातृभगिनोभावौ ज्ञातौ । ततो व्यवसाया कुबेरदत्तो मथुरायां गतः । कुबेर सेनायाः स्वमातुरज्ञानात्कलत्रीकरणं पुत्रोत्पत्तिरभूत् तयाः । कुबेरदत्ता विरक्ता भवाद्दीक्षां ललौ । तपसा तस्या अवधिज्ञानमुत्पेदे । स्वपुत्रपुत्र्यादिसम्बन्ध15 मवगत्यावधिज्ञानात् कुबेरदत्ता यतिनी कुबेर सेनामातृगृहोपान्ते कस्यचिदुपायं याचित्वा स्थिता | ततो मातृभ्रात्रोः प्रबोधाय कुबेरदत्त कुबेर सेनोत्पन्नं बालं पालनस्थं रटन्तमिति तत्रैत्याललाप - भ्रातासि तनुजन्मासि, २ वरस्यावरजोऽसि च । भ्रातृव्योऽसि पितृव्योऽसि पुत्रपुत्रोऽसि वार्भक ! ॥ १ ॥ यश्च बालक ! ते पिता, स मे भवति सोदरः । पिता पितामहो भर्त्ता, तनयः स्वशुरोऽपि च ॥ २ ॥ याच बालक ! ते माता, सा मे माता पितामही । भ्रातृजायाः वधूः श्वश्रूः सपत्नी च भवत्यहो || ३ ||
५
४
५
20
25
एतद्विवरणश्लोकाते
आर्योचे मम बालोऽयं भ्रातैका जननी यतः । दामि तनुजन्मान-ममुं मत्पतिसूरिति ॥४॥ मद्भर्तुः सोदर इति, भ्रातुस्तनय इति च पितृव्यश्चैष भवति, भ्राता मातृपतेरिति । पुत्रः सपत्नीपुत्रस्ये- त्यसौ पौत्रो मयोदितः ॥६॥
1
देवरोऽपि भवत्यौ । भ्रातृव्यं कीर्त्तयाम्यमुम् ||५||
"Aho Shrutgyanam"
२
३
४
५
६