________________
द्वितीयोऽधिकारः
[ १३३
10
प्राक्सम्बन्धं प्राह । ततो गुरुः प्राह-मेदपाटमध्ये भीमपर्वतोपान्ते परमान्वयी जयताहः पल्लीपतिः लोकान् मुमोष । ग्रामान भनक्ति स्म ।
अन्येशुधनवन्तं सार्थपं तत्राध्वनि आगच्छन्तं दृष्टा लुलोट । घनदत्तो नष्टः सार्थपः स्वगृहे गत्वा मालवेशं संसेव्य तदलं लात्वा पल्लीपुरं वेष्टयित्वा युद्धे जयतं जिगाय । जयतो नष्टः धनदत्तस्तभृत्यान हत्वा तत्पन्याः सगर्भाया उदरं विदार्य कर्षयित्वा शिलायामास्फाल्य यम- 8 गृहं नीतवान् । ततो यदा धनदत्तः पल्लीपतिधनं राज्ञोऽग्रे मुमोच, तदा राजा तत्कृत्यं ज्ञात्वा रुष्टो जगौ-.
त्वं वाणिजोऽपिं जात्यारे, कर्मणासि जनंगम । निघृणो यत्स्वहस्तेन, स्त्रियं बालं च जघ्निवान् ।।६।। अर्थतत्कर्म निर्माति, चाण्डालोऽपि न कर्हिचित् ।
यत्वया निर्मितं रे रे, लोकद्वयविरोधकम् ॥७॥ अतस्त्वमदृष्टमुखो दूरं याहि, महेशे न स्थेयं । ततो निर्गत्य तापसो भूत्वा अज्ञानं तपः कृत्वा सिद्धराजोऽभूत् । धनदत्तः जयताकः पल्लीपतिः निःस्वो भूत्वा यशोभद्रसूरि सेवते स्म, धर्म शृणोति । यतःरोगिणां सुहृदो वैद्याः, प्रभूणां चाटुकारिणः ।
15 मुनयो दुःखदग्धानां, गणिकाः क्षीणसम्पदाम् ॥८॥ चौयं श्वभ्रफलं ज्ञात्वा, स्तन्यं तत्याज जयतः ।
स्थानभ्रंशं कुलध्वंसं, निःशेषविभवक्षयः ।
तत्कालं कलयन स्तेया-क: सुधीविदधीत तत् ॥९॥ ततो जयताक: एकशिलापुर्या प्रेषितः । तत्र उदरमहेभ्यगृहे कर्मकरोऽभूत् । भद्रकस्वभावत्वात् 20 गुरुरपि तत्रागात् उबरो धर्मोपदेशं शुश्राव ।
एकदा उदरेण जयतः पृष्टः, कुत्र तिष्ठसि वहीं वेलां । तेनोक्तं-यशोभद्रसूरेः पार्थे तिष्ठामि । तत उदरो दृष्टस्तं भृत्यं गुरुपाचं निनाय । धर्म द्वावपि श्रृणुतः स्म । उपदेशं श्रुत्वा उदरो जिनागारमकारयत् । तत्र श्रीवीरदेवप्रतिमां यशोभद्रसूरि [रिः) प्रतिष्ठयत् ।
एकदा पर्युषणादिने बहून् श्राद्धान् जिनमर्चयतो दृष्ट्वा स्वीयपञ्चकपः पुष्पान् लात्वा 25 प्रभोर्जयतोऽर्चा चक्रे । प्रातगुरून् प्रतिलाभ्योदरः पारणकं व्यधात् । स कर्मकरोऽनुमुमोद तत्पुण्यम् । उदरो मृत्वा उदायनो मन्त्र्यभूत् । जयताको मृत्वा भवानभूत् । यशोभद्रसूरिमृत्वा हेमाऽभूवम् । धनदत्तः सार्थपो मृत्वा सिद्धराजोऽभूत् । अतः प्राग्भववरात् त्वं मारयितुमारब्धस्तेन मम तव उदयनस्य च प्रीतिः प्राग्भवभूताऽभूत् । तत एकशिलापुरिप्रेष्यभृत्यान् पुरगृहप्रासादादिपुण्यं ज्ञातमतो मृत्वा भवान् व्यन्तरेन्द्रो भविष्यति । इन्द्रवत्स्वशाश्वतचैत्यानि 30
"Aho Shrutgyanam"