________________
१३० ]
प्रबन्धपश्चशती
सुप्तस्योपरि यत । ततः सर्वे मौनं चक्रुः । काछिकश्छुटितस्तेभ्यः स्वगृहे गतः।
इति अविचार्यजन्पने क्षत्रियसूत्रधारपुत्रसंबंधः ॥२१४॥
[215] अथ शुद्धाहारग्रहणे वत्सकथा । श्रीनिलये पुरे श्रीदः श्रेष्ठी, पुत्राः ४ क्रमात्परिणायिताः श्रेष्ठिना । तस्य च गृहे एका 6 गौरेको वत्सः तस्य चारिपानीययोश्चिन्तां ता वारकेण कुर्वन्ति ।
एकदा विवाहे जायमाने स वत्सो विस्मृतो, बुमुक्षितस्तासां मुखं विलोकयति ताश्च विवाहासक्ता न स्मरन्ति वत्सम् । इतः श्रेष्ठी वत्सं बुभुक्षितं जज्ञौ । ततः श्रेष्ठी ताः प्रति प्राहयूयं न वरा, यतो वत्सस्य सारा न कृता इति हसितास्ताश्चारिपानीयादि दातुं वत्सं
प्रति चेलुः, तदा यथा वत्सस्तस्मिन् चारिपानीयादौ एकाग्रचित्तोऽभूत्, न तासु । तथा 10 साधुभिभिक्षासु चित्तं देयं, नान्यत्र ।
इति शुद्धाहारग्रहणे वत्सकथा ॥२१५॥ [216 ] अथ विध्यविधिभ्यां धर्म कर्तव्यमिति पुरुषत्रयकथा । कस्मात्पुरात् त्रयः पुरुषाः द्रव्यार्थ चेलुः । गतास्तुङ्गशैले, तत्र सिद्धपुरुषं षण्मासं यावनिरन्तरं सिषिविरे तथा, यथा प्रसन्नीभयऽवग-मार्गयत यूयं चित्तेष्ट, ते जगुर्घनं देहि । ततः पुनस्तम्बिका 16 बीजानि दत्त्वाऽवग्-भवद्भिः पुष्यायोगे मध्याह्न जाते शतवारं क्षेत्रं खेटयित्वा छायायां कृतायां
मण्डपयोगात् बीजानि वपनीयानि । अर्थ मन्त्रश्च जपनीयः इत्यादि विधिना तुम्बिकाबीजानि उद्गतानि पुनर्बीजानि तासां जायन्ते यदा तदा सपत्राः सशाखास्तुम्बिका उत्पाट्य आतपे शुष्कयित्वा तासां बीजानि पृथक्कृत्वा सुस्थाने स्थाप्यानि । यतः पुनर्वपनाय तासां चूर्णमेकगदीयानकमितं तप्तत्रपुमध्येऽपि झिप्यते सर्व सुवर्ण भविष्यति ।
एवं श्रुत्वा तास्तुम्बीलात्वा तासां बीजानि ते ललुः । ततस्तं सत्पुरुषं नत्वा स्वग्रामे ययुस्ते त्रयः । तेषु प्रथमो गुरुक्तविधिना तानि तुम्बीबीजानि उप्त्वा सुवर्ण चक्रे, बहु ततः सुख्यभूत् । द्वितीयो गुरूक्तं विधि शिथिलयन् तानि बीजानि उप्त्वा रजतं चक्रे । तृतीयो गुरुक्तं विधि न न व्यधात् तस्य किमपि नाभूत् ।
एवं ये गुरुक्तविधिना सादरं देवपूजादानशीलतपोभाबनादिपुण्यं कुर्वन्ति ते प्रथमपुरुष. 26 बस्वर्गापवर्गादिसुखभाजः स्युः ।।
थे तु विधिना धर्म कुर्वन्तः कदाचिदविधिनाऽपि देवपूजादिपुण्यं कुर्वन्ति ते द्वितीयपुरुषवन्मनुष्यजन्म लभन्ते ।
ये तु गुरूक्तं धर्म विधिनाऽविधिनाऽपि न कुर्वन्ति ते तृतीयपुरुषवहुःखिनो नरके मवन्ति । एवं विधिमा धर्मकृत्यं नो वेदविधिनाऽपि कर्त्तव्यं, न धर्मकृत्यं विना स्थेयं । यतः
"Aho Shrutgyanam"