________________
द्वितीयोऽधिकारः
अविहिकए वरमकयं, असूयवयणं भणंति समयण्णू । पायच्छित्तं जम्हा, अकयगरूअं कयलहुअं ॥१॥ इति विध्यविधिभ्यां धर्म कर्त्तव्यमिति पुरुषत्रयकथा ॥२१६॥
[217 ] अथ द्वेष भूपपत्नीकथा । श्रीपुरे चन्द्रभूपस्य पश्चदशपल्योऽभूवन् । तासु मध्ये चन्द्रवतो पट्टराज्ञी जिनधर्म कुशला । । अपरासामने वक्ति-भो भगिन्यः ! अस्माभिः पूर्व पुण्यं कृतं तेन वयं भूपस्य पल्योऽभूम । यदि जैनो धर्मः क्रियते तदा वरं । एवं कथयन्तो जिनप्रासादं कारयामास । तत्रादिदेवप्रतिमा स्थापिता । एकदा भगिनीनां पुरः प्रोक्तं-जिनप्रासादप्रतिमाकारणे बहु पुण्यं जायते, यतः
अङ्गष्ठमात्रमपि यः प्रकरोति बिम्ब,
वीरावसानवृषभादिजिनेश्वराणाम् । स्वर्गप्रधानविपुलद्धिसुखानि भुक्त्वा,
पश्चादनुत्तरगतिं समुपैति धीरः ॥१॥ इत्यादि धर्मोपदेशं पट्टराज्ञोमुखादाकर्ण्य सर्वाभी राजीभिर्जिनालयास्तुङ्गाः कारिताः । चन्द्रवती गुरुणीति कृत्वा स्थापिता इयं पुण्यवतीति ता जल्पन्ति । क्रमाञ्चन्द्रवती लोकमुखात्स्वं 15 जिनालयमपराहदालयेभ्यो हीनं श्रुत्वा खिन्ना दध्यो । मया पापं कृतं यदासां पात्प्रासादाः कारिताः । किं कथमपि प्रासादाः पतन्ति तदा वरम् । एवं सदातध्यानपरा हृदये परेभ्यः स्वं पापमप्रकाशयन्ती क्रमादुत्पन्नरोगा मृता ग्रामशुनी जाता । सा च प्रभुप्रासादे प्रविशन्ती ता कष्टापयन्ति कुट्टयन्ति बहिनिष्काशयन्ति ।
एकदा प्रभुबिम्बं दृष्ट्वा जातिस्मृति प्राप्याश्रप्रवाहं मुञ्चन्ती तिष्ठति स्म, न कुत्रापि गच्छति 20 पुनः स्वकृतकर्म निन्दति च तदा केवली तत्रागात् । स च सर्वाभिः पट्टराज्ञोभिभूपेन वन्दितः धर्मोपदेशः श्रुतः । पृष्टं ताभिः अस्मद्गुरुणी चन्द्रवतो मृत्वा कुत्रोत्पन्ना ? केवल्यवग्-शुनो या जिनबिम्बं दृष्ट्वाऽश्रु पातयति सैव । ततः पृष्टं कथं पुण्यवत्येवंविधाऽभूत् ? केवल्यवग-आतध्यानाव कुत्सितध्यानाच्च । ताभिः पृष्टं कथं झायते ? केवल्यवग-भवन्त्यस्तत्र गत्वा पृच्छन्तु, सास्य संज्ञापयिष्यति । ततः केवलिपार्श्वे आनीता । केवल्यवग-परस्मिन् द्वेषं कुर्वन् तियगपदीय 25 भवति एषा शुनी यथा ततः सर्वो वृत्तान्तः प्रोक्तः । सा चानशनं लात्वा स्वर्ग क्रमाद् दिवि यास्यति । ततः सर्वाः राज्ञः पल्यो द्वेषं त्यक्त्वा शुद्धं धर्म कृत्वा प्रान्ते चारित्रं लात्वा सर्वकर्मक्षयान्मुक्तिं गताः । इति द्वेष भूपपत्नीकथा ॥२१७॥
[318 ] अथ भाग्ययोगात्स्वेष्टयोगो भवति । एकस्मिन् प्रामे भग्ने परैः एकस्य निगमस्य प्रिया तैहोता वैरिभिः। सा सो वैरिभिश्चालिता 30
"Aho Shrutgyanam"