________________
द्वितीयोऽधिकारः [ 204] अथ 'घरसरीखी यात्रा नहीं' इति उषाणो । श्रीपुरात् धर्मदत्तश्रेष्ठी मातरमापृच्छय कस्यचिच्छ्रेष्ठिनः पार्थात् द्रम्मान पञ्चशती व्याजेन लात्वा देवयात्राथ चचाल । मार्गे चलन् खिन्नोऽभूत् । तदा कस्मिंश्विग्रामे मस्तकं भद्रीकृत्य यात्रिकवेषभृत् सर्व धनं भक्षयित्वा यात्रिकलोकेन सार्द्ध पश्चादाययौ । सर्वे स्वजनाः संमुखमायाताः, पुरप्रवेशोत्सवोऽभूत् ।।
कियहिनानन्तरं स धनदाता श्रेष्ठी स्वधनं सव्याजं याचते स्म, स च न दत्ते । ततो धनदाताऽभ्येत्य तस्यालये लचयितुमुपविष्टः । यदा स श्रेष्ठी यात्रिको धन न दत्ते तदा तेनोक्तं तीर्थयात्रापुण्यं वितर मम, नो चेद् धनं देहि, नो चेदहं मरिष्यामि । ततो धर्मदचो यात्रापुण्यं दातुं लग्नः ।
___ अत्रावसरे माताऽभ्येत्य प्रोवाच-पुत्र ! आत्मीयं यात्रापुण्यं न दीयते । यात्रापुण्येन स्वर्गसुखं भवति । अतः त्वया यात्रापुण्यं न दातव्यम् । ततश्छन्नं स्थित्वा मातुरप्रे तेन प्रोक्तं-इयं गृहसदृशी यात्रा नास्ति । माताऽवग-पुत्रः कथमेवं त्वया प्रोच्यते ? तदा पुत्रण यात्रासम्बन्धः प्रोक्तः । ततस्तेनोक्तं--मम यात्रापुण्यं तव भवतुः। एवं प्रोच्य धर्मदत्तस्तं विप्रतार्य धनं रक्षितवान् । 'घरसरीखी यात्रा नहीं' इति उखाणो मतः ॥२०४॥
[205] अथ दानफले भीमश्रेष्ठि विक्रमार्कसम्बन्धः । अन्यदा विक्रमादित्यो भूपो दानमर्थिभ्यो ददानरे दथ्यौ दानस्य किं फलम् !
अत्रान्तरेऽम्बरे दिव्यवागभूत्-'एकगुणं दानं, सहस्रगुणं पुण्यं' कलौ वर्तते । राजा दध्यौ-कोऽप्येवं व्योम्नि वक्ति ! ततः पुनर्वाण्यभूत्-यदि दानफलं द्रष्टुं वाल्छति तदा सोपारकपत्तने गत्वा कदर्यमहेभ्यस्य दानपरभीमश्रेष्ठिनश्चरित्रं विलोकय !
ततो राजा एकाकी सोपारकपत्तने ययौ । कर्यश्रेष्ठिगृहे कोटिद्वयरैशालिनि गतः । याब्चा भोजनाय कृता। किमपि न दत्तं । उसरो विधे-स्वयं न मुक्ते स बान्धवादीनामपि न दत्ते भोजनं पर्वण्यपि । तं तादृशं बद्धमुष्टिं दृष्ट्वा भीमगृहे राजा गतः। श्रेष्ठिना स्वागतं कृतम्, भोजनं याचित्वा यावत्पश्चाद्वलितस्तावत्तेन रक्षितः श्रेष्ठिगेहे तदान्नं राद्धमभूत् , परं घृतं नास्ति । ततः कृपापरो दानी स भीमः कदर्यगृहे गत्वा कदर्याने प्राइ-मद्गृहे अतिथिरागतोऽस्ति तस्मै मया भोजनं दास्यते । तेन घृतमप्पय । स चाहन्धनं मुन्न । भीमोऽवग-दाने दत्तेऽर्थिभ्यस्तवापि पुण्यं भविष्यति । कदर्योऽवग-मम पुण्येन सृतम्, कोऽधिकस्य पुण्यस्म भारं
"Aho Shrutgyanam"