________________
द्वितीयोऽधिकारः
[ १२५
वहते । ततो भीमश्चतुर्गुणं घृतं दास्यामीति जल्पित्वा घृतमानीय विक्रमार्कमाघूर्णकं सादरं गौरवयामास । भीमगृहे राजा रात्रौ स्थितः । दैवयोगात्कदर्यभीमश्रेष्ठिनौ मृतौ । राजा दध्यौ-येन ममादराहानं दत्तं स श्रेष्ठी कथं मृतः । अहमपि मरिष्यामि । ततो यावन्मर्तुकामो भूपोऽसिं कुक्षौ चिक्षेप, तावत्पुनराकाशवाणी जाता
'इतो दशमे मासे त्वया कान्त्यां पुर्या गम्यम् । तत्र दानफलं द्रक्ष्यसि ।' ततो राजा 6
मानन्तरं कान्त्याः पर्याः पाइवें गतः । तत्रैकस्य चाण्डालस्य पल्ली षट पत्रीजनितवती। गृहे तु दारिद्रयम् । सप्तमो गर्भोऽभूत्तस्या यदा तदा गर्भपातनेच्छाऽभूत्, परं गर्भः पात्यमानोऽपि नापतत् । क्रमात्पत्री तया जनिता । तया चाण्डाल्या उत्करटके त्यक्ता ।
अत्रान्तरे राजा तत्रागतोऽवग--पुत्री कथं त्यज्यते ! ततः सा प्राह-अस्यां गर्भस्थायां दुष्टा दोहदा जाताः । गेहे तु अद्यतनमन्नं नास्ति । ततो राज्ञा घनं धनं दत्त्वा सा 10 पश्चाग्राहिता मातृपाश्र्वात् । ततो राजा पुरांतरे गतः।
___ इतस्तत्र पुरे भूपस्य पुत्रोऽभूत्, परं स्तन्यपानं पुत्रो न करोति । ततो राजादयः सर्वे दुःखिता जाताः । ततो राज्ञोक्तं-'यो राजपुत्रं स्तन्यं पिबन्तं करोति, तस्मै राजा प्रामशतं दत्ते' इति पटहो वाद्यमानो न केनापि स्पृष्टः । ततः पटहस्पर्शनपूर्व राजा विक्रमार्को भूपपुत्रपाश्र्व गतः । ततोऽसि कण्ठे दत्त्वा प्राह राजा-येनास्य बालस्य गलं रुद्धं स्यात् स 15 प्रकटीभवतु ममाने, नो चेदहं मरिष्यामि । ततो दानाऽधिष्ठितदेवतया बालकमुखेऽवतीर्य प्रोक्तं-भो राजन् किं मामुपलक्षयसि न वा ? विक्रमार्कोऽवग-नाहमुपलक्ष्ये । ततो बालोऽवग-अहं सोपारकपप्तनवासिभीमश्रेष्ठिजीझस्तुभ्यमतियये दानमदाम् । तेन पुण्येन । भूपपुत्रोऽभवम् । राज्ञोक्तं-कदयः क्वावतीर्णोऽस्ति ? बालोऽवग--या त्वया चाण्ड पुत्री त्यजन्ती धनं दत्त्वा ग्राहिता सा कदयश्रेष्ठिजीवोऽल्पपुण्यः । अहं तु दानाधिष्ठायिक- 20 देवी दानफलं झापयितुं शिशोरास्येऽवतीर्याऽजल्पम् । ततो बालोऽपि, स्तन्यं पातुं लग्नः । देवी स्वस्थाने गता। बालपित्रा ग्रामशतं दीयमानं विक्रमार्को न ललौ, तदा दानफलं देवतामुखात् श्रुत्वा राजा लोकोऽपि दानतत्परोऽभूत् ।
इति दानफले भीमश्रेष्ठिविक्रमार्कसम्बन्धः ॥२०५॥ [206 ] अथ निरुपकारनरसम्बन्धः ।
25 एकस्य मस्स्स राजवर्त्मनि गच्छतस्तैलभृतवर्तुलातलविन्दु मौ पपात । ततस्तत्र बहुभिर्जनैस्तैलबिन्दवः क्षिप्ताः। तत्स्थानं देवताधिष्ठितं जाबम् । स 'तैलदेवते ति नामाभून् । सा च देवी पूर्व क्षिप्तबिन्दुपुरुषाय पुनस्तैलं क्षिपतः [ते] श्रियं दत्ते । ततस्तेन तेलदेवप्रतिमा कारिता। सा [तां] च तेलदेवताप्रतिमा (मा] सर्वेषां श्रियं ददानां दृष्ट्वा स पुमान् परश्रियमद्रष्टुकामस्ता प्रतिमा वने चिक्षेप । ततस्तस्य गृहाच्छोगता । स च दरिद्रयभूत् । ततः स एव पुमान् पूर्व- 30 स्थाने ना मुमोच । ततः राजवर्त्मस्थतैलदेवता सर्वेषां मनोवाच्छितं ददो।
' इति स्थानप्रधानः निम्मकारनासम्बन्धः ॥२०६॥
"Aho Shrutgyanam"