________________
प्रथमोऽधिकारः
[ १२३
धर्म कर्तुं तिष्ठति तत्र सुरत्राणस्यादेशात् सहस्रमितभटप्रमाणं सैन्यं तस्य रक्षयति । राजा तु धर्मार्थी मुहणसिंहस्य धर्मिष्ठता स्तौति सदा ।
इति धर्मनिश्चलतायां महणसिंहसम्बन्ध ॥२०१॥
[ 202] कर्मणि कुटुम्बिकपुत्रसम्बन्धः । एकस्य कुटुम्बिनो दश हलानि क्षेत्रे वहन्ति । स च मध्याह्न समागते भुक्ते । एका घटी 5 यावञ्च हलानि खेटयन्ति तदा च दानं दत्तोऽर्थिभ्यः। स च कालेन मृत्वा पद्मपुरे राजपुत्रश्चन्द्राबोऽभूत् ! वर्याभरणादि परिधत्ते । परं रोगग्रस्तो जातः । क्रमासत्यपि विभवे किमपि भोक्तुं न शक्नोति । यदा वर्यमाहारं गृह्णाति तदोदरपोडा भवति । दानप्रभावादाजपुत्रोऽभूत् । परं वृषभाणामतिवाहनात्तस्यांगे रोगः समागतः । स्वं प्राग्भवं श्रुत्वा कृषिकरणे नियमं स ललौ । इति कर्मणि कुटुम्बिकपुत्रसम्बन्धः ॥२०२।।
10 [203] अथ परस्त्रीपराङ्मुखत्वे महणसिंहसम्बन्धः । एकदा पीरोज सुरत्राणस्याने नत्तक्यो नृत्यं मण्डयामासुः । महणसिंहसाधुस्तदा यावदुत्थातुं लग्नः तदा राजाऽवग-तिष्ठाधुना । ततो राजामहान्मणसिंहस्तत्र स्थितः । तदा हस्तगृहीतजपमालया नमस्कारान् गणयन् जपमालादत्ताहक तस्थौ । नृत्यं तासा न वीक्षते । ततो महणसिंह ध्यानारूढं दृष्ट्वा राजा हृष्टोऽभूत् । नृत्ते निवृत्ते राजा पप्रच्छ । नर्सकोभिनृत्यं कोहकृतं ? 16 महणसिंहोऽवक-लोका वदन्ति-वयं वृत्त । अहं न जाने कोहकृतं नृत्तं । राजाऽवग-कयमेवं
इणसिंहोऽवग-अहं परखियः संमुखं दृढं न विलोकयामि तेन मथा नृतं न वोक्षितं । ततो राजा द्रष्टस्तं परखोपरामुखं मत्वा बहुधनदानात्प्रीणयामास ।
इति परस्त्रीपराङ्मुखत्वे महणसिंहसंबंधः ॥२०३॥
20
इति भीतपागच्छाधिराज श्रीरत्नशेखरसूरि पट्टालङ्करण श्रीलक्ष्मीसागरसूरिशिष्य पं० शुभशीलगणिविहितपञ्चशतीकथाप्रस्तावकोशे
॥ प्रथमोऽधिकारः समाप्तः ॥
"Aho Shrutgyanam"