________________
११६ ]
प्रबन्धपश्चाती
इमा समस्यां यः पूर्णां करोति तस्मै लक्षद्रम्मा दीयन्ते । ततो विशेषा सर्वे लोकाः बुधा अपि पूरयन्ति परं न मिलति सत्या ! इतश्चारामिकेन पुरोधाने पठ्यमाना समस्या धर्मरुचिर्यतिः श्रुत्वाऽऽचष्टोच्चैः स्वरम्
एतेषां घातको यश्च, सोऽप्यत्रैव समागतः ॥२॥ 5. मालिकपाश्र्वाद्धर्मरुचिं यतिं ज्ञात्वा वने तत्र गत्वा यतिं भक्त्या क्षमयित्वा राजा धम
जैनं जग्राह । मालिकाय मानितं ददौ च । यतिरपि विशेषारक्षमयामास भूपमिति स्वपापक्षमरणे-धर्मरुचिसम्बन्धः ॥१९॥
[192] अथ लौकिककृष्णभार्या तुलछीसम्बन्धः । ___ एकदा कृष्णः कस्यचिदसुरस्य तुलछी नाम्ना पत्नीमङ्गीकर्तृकामस्तस्य रूपं कृत्वा 10 तस्मिन्नसुरे ग्रामान्तरं गते समेत्य बलात्तां बुभुजे । मणान्तरे भर्ता समागात् । भोक्तुं प्रियां
ययाचे । तदासाऽवग-स्वामिस्त्वयाहमधुनैव भुक्ता तेनैवं कथं प्रोच्यते ? सोऽसुरोऽवगमया त्वं न भुक्ता । ततस्तस्या कृष्णो जारो ज्ञातः । ततस्तया काष्टभक्षणं कृतं पश्चात्तापात् । यत्र सा दग्धा तत्र तलछीनाम्ना तरुरुत्पन्नः । ततः कृष्णेनाभीष्टत्वात्स्वाङ्गे दत्ता । ततो लोके
तुलछी मान्याऽभूत् । एवं-विधेऽन्यायेऽपि कृते लोकानां कृष्णो मौढ्यान्मान्योऽभूत् । त तो 15 लोके कृष्णभार्या तुलछी प्रसिद्धा पूज्या जाता।
इति लौकिककृष्णभार्यातुलछीसंबंधः ॥ १९२ ।।
[193 ] अथ कर्म विषये लौकिकविधिसंबंधः । श्रीपुरे कर्णभूपतेयंदा पुत्री जाता तदा पुरोहितस्य चन्द्रस्य पुत्रोऽभूत् । द्वयोर्विधिनाललाटे वण्णांवली लिखिता । तदा राज्ञा विधिः पृष्टः त्वं किमर्थमत्रागाः १ तेनोक्तं-तव 20 पुत्रयलिकेऽक्षरावल्यालिखनायागामहं । राज्ञोक्तं-किं लिखितमस्ति ? तेनोक्तं तव पुरोहित
पुत्रस्य पत्नी भविष्यति । ततः पुरोहितस्याग्रे प्रोक्तं-तव पुत्रस्य भूपपुत्री पत्नी भविष्यति । राजा त स्वां पुत्री पुरोहित पुत्राय दात न ववाग्छ । भपपत्री पुरोहितपत्रावेकत्र लेखशालायां पठतः स्म । मिथो रागो जातः । परं राजा धिग्जातित्वात् पुत्री तस्मै दातु नेहते ।
एकदा राज्ञा पुरोहितस्याने प्रोक्तं-वरः पुत्र्या विलोक्यते । तेन पुरोहितेनोक्तं---विधिः 25 प्रक्ष्यते । वरं कथयिष्यति सः राजाहाधुना विधि प्रष्टुं तव पुत्रो गच्छतु । ततः पित्रादेशा--
त्पुरोहितपुत्रो विधि प्रष्टुं चलितः । मार्गे कस्मिन्पुरे गतो वीरवणिग्गृहे । वणिजोक्तं-कुत्र गमिष्यसि किमर्थं ? पुरोहितपुत्रो विधिपार्श्वगमनस्वरूपं प्राह । ततः स तेन गौरवितोऽन्नादिदानात् । ततो वणिग प्राह-त्वं विधिपार्वे गच्छन्नसि परं त्वया वन प्रष्टव्यं-चन्द्रपुरे
वीरवणिग प्रत्यब्दं महान्तं जेमनवारं करोति । ततः कथं प्रत्यब्दं तस्य गृहं ज्वलति । पुरोहित30 पुत्रोऽवग-प्रक्ष्यते ॥१॥ ततोऽग्रतश्चलन वीरपुरे, गतः । तत्र प्रभूपेन भोजयित्वा पृष्टः
"Aho Shrutgyanam"