________________
प्रथमोप्रधान
पुरोहितपुत्रः । क्व गच्छति ? तेन स्वगमनस्वरूपं प्रोक्तं । ततो भूपोऽवग-मम दानं ददतः कथं कुष्टं न याति ? विधिः प्रष्टव्यः । स चाह-प्रक्ष्यते मया २। ततो गच्छता तेन सिन्धुमध्ये एको मत्स्यो बहिनिःसरन् वीचिभिः पुनः प्रविशन् दृष्टः। मत्स्योऽवग-त्वं क्व यास्यसि ? तेन स्वगमनस्वरूपं प्रोक्तं । ततो मत्स्यः प्राह-अहं कथं जले स्थातु न शक्नोमीति विधिः प्रष्टव्यो मदर्थम् ।।
ततो गच्छतस्तस्य विधिमिलितः । राझोक्तं-पुत्रीवरयोग्यतादि विधिनोक्तं-गच्छ, त्वया राज्ञोऽने बक्तव्यं विवाहसामग्री कार्यतामहं वरमानयिष्यामि विचारो न कर्त्तव्यः । ततस्तेन वणिजोक्तं, विधिः पृष्टः प्राह--तस्य देवगुरुभगिन्यादौ न भक्तिः, भगिन्यपि गेहकार्याणि कार्यन्ते तेन कूटतूलादिना व्यवसायः क्रियते । अतो गृहं धक्ष्यति प्रत्यब्दम् ॥११ ततो राज्ञोक्तं पृष्टं विधिः. प्राह-गोत्रक-दमनं करोति, प्रजाः पीडयति तेन कुष्टं न याति ।२। ततो 10 मत्स्योक्तं पृष्टं, विधिः प्राह--मत्स्यः प्राग्भवे विद्यावानपि स्वां विद्यां कास्यापि न ददौ । विद्यामदं चक्रे च तेन समुद्रोऽपि मत्स्यं न धरते ।।
ततः स पश्चादागच्छन् विधिप्रोक्तं वणिजोऽग्रेऽचीकथत् , ततः स वणिग कूटतुलादिप्यक्त्वा देवगुर्वोक्ति चक्रे ततो गृहं न दग्धम् ॥११ राजोक्तं विधिना राजाने जगाद स राजा तथा चक्रे ततो राशः कुष्टं गतम् ।२। मत्स्योऽपि प्राग्भवसम्बन्धं ततः श्रुत्वा पश्चा- 15 त्तापवान् स्वं निनिन्द । ततो मृत्वा रामः पुत्रो जातः सुखी च ।
राजा धनेन तत्रागताय पुरोहितपुत्राय स्वपुत्री दत्त्वा महान् कृतः, पुत्रस्थाने स्थापितश्व पुरोहितपुत्रः ।
इतोऽनागते पत्रे राज्ञा प्रेषिताः स्वमन्त्रिगणस्तस्यैव राज्ञो वरं पुत्रं ज्ञात्वा कन्याया विवाहं मेलयित्वा गताः । ततो राज्ञा संमुखं पुत्री प्रेष्य तस्मै दापिता । पुरोहितो दुःखी 20 दध्यौ-मम पुत्रः किमुत राजपुत्री देवतादिष्टां न परिणिन्ये । अतो विधिलिखितमन्यथा जातं । राजापि प्राह--मया विधेलिखितमन्यथा चक्रे । ततो विधिः स्वप्नेऽभ्येत्य भूपस्याग्रे प्राह- तव पुत्री पुरोहितपुत्रः परिणिन्ये । ततः पुरोहितपुत्रस्तत्राकारितः । ततो राजा प्राह--- विधिलिखितं केनाप्यन्यथा न क्रियते । ततः पुरोहितपुत्रोऽनिशं कन्याद्वययुतः सुखी बभूव । इति कर्मविषये लौकिकविधिसम्बन्धः ॥१९३।।
52 [ 194] अथ अनित्यत्तायां चन्द्रधनसम्बन्धः । चन्द्रपुरे धनो वसति स्म । भीमपुरे चन्द्रो वसति स्म । तयोः प्रीतिरभूत् । एकदा द्वावप्येकत्र मीलित्वा प्रोचतुर्मिथः धनं विना वराकारस्यापि पुंसः शोभा न भवति । यतः
जाई रूवं विज्जा, तिन्नि वि निवईतु कंदरे विवरे । अत्थुच्चिअ परिवुड्डो, जेण गुणा पायंडा हुँति ॥१॥
४
"Aho Shrutgyanam"