________________
प्रथमोऽधिकार
[ ११५ द्विजान सस्मार । एवमतृप्तो द्विजोऽर्त्या मृत्वा तिर्यग्योनौ उत्पन्नः । एवमतीवानं न भोक्तव्यम् ।
इति अतृप्तिविषये द्विजसम्बन्धः ॥१८९॥
[190 ] अथ निश्चलमनः साधुसम्बन्धः । एकस्मिन्पुरेऽहन्नतोऽहंन्मित्रश्च वसतः सोदरौ । ज्येष्ठभार्या लघुदेवरि रताऽमृत् परं लघुर्नेच्छति । स्त्रीस्वरूपं तादृशं दृष्ट्वाऽहन्मित्रो व्रतं ललौ तद्रक्ता सा मृता शुनी जाता, साधवस्तत्राययुः 5 शुन्या स मुनिदृष्टः। सा शुनी पतिमिवालिलिङ्ग तं, नष्टः साधुः । साथ मृताटव्यां मर्कटी जाता। ततो भवितव्यतायोगात्तस्यामेवाटव्यां स मुनिर्गतः, तं मुनिं दृष्ट्रा पूर्ववदालिलिङ्ग रागधिया तदाऽपरे साधवो जहसुः -असौ साधुर्मकटीपतिः, साधुस्ततो नष्टः, मर्कटी मृता यक्षिण्यभूत् । तं मुनिं दृष्ट्वाऽवधिज्ञानाद्दध्यौ--असौ मुनिमया बहुभवेषु वाञ्छितो मां न ववाञ्छ, ततोऽधुनाऽमुमालिङ्गामीति ध्यात्वाऽऽलिङ्गति स्म मुनिं । ततोऽपि मुनिनष्टः । ततो गच्छन् नदीमुल्लचितुं 10 यावजले प्रबिष्टः तावत्तया यक्षिण्या साधोः पाद श्छिन्नः । तदा तो यक्षिणी शासनदेवी ताडयामास प्राह च-रे पापिनि ! त्वं यदा ऋषेः पराभवं करोषि ततस्तस्या मिथ्यादुःकृतं दत्तं, सद्यो दिव्यानुभावेन पादः सजीकृतः । ततो यतिः सविशेषं चारित्रं प्रपाल्य स्वर्ग गतस्ततो मुक्ति यास्यति । इति । इति निश्चलमनः साधुसम्बन्ध ॥१९०||
[191] अथ धर्मरुचिभूपसम्बन्धः । गङ्गायामन्यदा नाविको नन्वाह्रो नदीमुत्तारयन् द्रव्यं लाति तदा धर्मचि नदीमुत्तारयामास । नन्दो धनं मार्गयामास, यति न मुञ्चते । मध्याह्न जातं । यतिः रुष्टः । तेजोलेश्यया नन्दं भस्मीचक्रे ११ ततो मृतो नन्दो नाविकः क्वापि ग्रामे सभायां गृहकोलिकोऽजनि । तत्र दैवयोगात् धर्मरुचिः साधुः समागात् । तं दृष्ट्वा गृहकोलिको धूलिं चिक्षेप । ततो धर्मरुचिस्तेजोलेश्यया गृहकोलिक भस्मीचक्रे ।२। स च मृतो हंसोऽभूत् गङ्गायां । दैवयोगात्तत्र साधुः समागात् । सोऽपि हंसो 30 जलेन मुनिमुपद्रवति । तत्रापि पूर्ववत् मुनिना हतः ।३। ततो मृतोऽजनपर्वते सिंहोऽजनि । सोऽपि सिंहो यति हन्तु धावितो यतिना तेजोलेश्यया भस्मीकृतः !४! ततः सिंहो मृतो बाराणस्या बटुरभूत् । सोऽपि पूर्ववैरात् यति लेष्टुभिर्हन्ति, ततो मुनिस्तं भस्मीचक्रे ५। ततोऽकामनिजेरया कम क्षिपन् तस्मिन्नेव पुरे राजाऽभूत् ।६।
सोऽपि राजा जातिस्मृति प्राप्य पूर्वभवान् स्मृत्वा तं धर्माधि मुनि क्षमयितुं ज्ञातुं च 25 समस्यां लोकाय ददौ । लोकाः सर्वत्र ता समस्यां पठन्ति गायन्ति सदा । तथाहि
"गङ्गायां नाविको नन्दः सभायां गृहकोलिका । मृतगङ्गातटे हंसः सिंहश्चान्जनपर्वते ॥१॥ वाराणस्यां बटुः पुर्यां , राजा तत्रैव चाभवत् ।"
15
"Aho Shrutgyanam