________________
११४ )
प्रबन्धपश्चशती
एकदा भीमो भार्यादत्तमोदकशम्बलश्वचालान्यग्राम प्रति, मार्गे चलन् कस्मिंश्चिज्जलाशये समागते यावच्छम्बलं भोक्तुमुपविशति भीमस्तावत्क्षुत्स्वयमभूत् , यतः-"आत्मछिक्का भयावहा ।" ततो जलं पीत्वा सरःपालौ तरोरधः सुप्तो निर्भरं श्रान्तः । इतस्तत्रागताः स्तेना धनयुक्तास्तं निर्भरं सुप्तं दृष्ट्वा तस्य ग्रन्थौ वस्त्रस्य मोदकान् वीक्ष्य जगृहुश्छन्नं यावत्तर्मोदका भक्षितास्तावन्मृताः स्तेनाः । भोमो जागरितः सन् मोदकानदृष्ट्वा मृतान् चौरान वीक्ष्य दथ्योएतैर्मोदका मे भक्षिताः । ततस्तेषां पावस्थं बहुधनं लात्वा स्वगृहं प्रति चचाल । शकते च भार्यया कि विषमिश्रिता मोदका मह्यं दत्ता, मारणाय । पुनर्दध्यौ-भार्या त पति न मारयति । क्वचित् मार्गे बुभुक्षितः स तत्र वनेऽकस्मान्मृतान्मयूरान् दृष्ट्वा बुभुजे ततश्चलन्
गृहद्वारे यावत्समागात् तावदितः स्वभार्यानीतो जारो भाययेति जल्पितः-स्वमुत्तिष्ठान्यत्र 10 गच्छ । ततः स त्वरितं घोटिकामारुह्य गृहापरद्वारेण शीघ्र निर्ययौ । तदाऽकस्मात्तया
घोटिकया जनितः सद्यः किशोरस्तत्र स्थितः । भीमो भार्यापार्वे समागतः प्राह-भो प्रिये ! आत्मनो गोपार्वे किमस्ति ? ततस्तया जारघोटिकया जनितं किशोरं ज्ञात्वा प्रोक्तं-आत्मनो धवलया गवा किशोरो जनितः । ततो निजां पत्नी कुशीलिनी स्वहन्तृका ज्ञात्वा भीम आचष्ट पत्न्याः पुरम् --
धवली जिणइ किसोरजं, दाधालाभई मोर। 15
दीहाडा होई पाधरा, लाडू खाई चोर ॥१॥ एवं प्रोच्य त्वं कुशीलिनी मम हन्त्रीति गदन सपत्नी तत्याज । अन्यामानीतवान् । सा च पत्या मुक्ता ततो जारेणापि मुक्ता दुःखिनी जाता।
इति भाग्योपरि क्षत्रियसंबंधः ॥१८८ ॥
[189] अथ अतृप्तिविषये द्विजसम्बन्धः । एकेन द्विजेन धनिना बहवो द्विजा भोजनाय स्वगृहे आनीताः, तेषां मध्ये ये धनिनस्ते गृहमध्ये भोक्तुमुपवेशिताः । ये मध्यमास्ते मध्यस्थाने । ये निर्धनास्ते मण्डपे बहिः । तदा द्विजेन सर्वेषां द्विजानां खण्डक्षीरघृतमण्डकवटकवर्यशाकादि परिवेष्यते । तदा बहिः स्थिता द्विजा
श्चिन्तयन्ति-मध्यस्थानां द्विजानां वर्या रसवती परिवेष्यमाणाऽस्ति, न तथाऽस्माकं, ततस्तेषां 25 खेदोऽभूत् ।
इतो गृहस्वामिना द्विजेन सर्वे पूर्णहृदया दृष्टोक्तं-यत एक वटकं गृह्णाति तस्मै स्पर्द्धक दास्येऽहं । ततो बहुषु वटकेषु भक्तेषूक्तं--य एता मण्डका गृह्णाति तेषां स्वर्णकं दास्ये एवं प्रोचं--प्रोचं आकण्ठं सर्वे जेमिताः । तत एको विप्रो बहिर्भोक्तुमुपविष्टो ऽतीव भृतोदरस्ता
पेनाक्रान्तो जलाशये प्रविष्टः । घटीद्वयादनुपूर्वप्रविष्टमहिषस्योदरं जलमध्ये तस्य हस्ते लग्न 30 ततो गृहमध्य-जेमित द्विजोदरभ्रान्त्या स द्विजः प्राह--भो द्विज ! त्वं माहिलओ अथवा बाहि
रलो मध्यमुक्त बहिर्मुक्तः एवं स्वोदरेऽतीवभृतेऽपि सद्विजोऽतृप्तोऽसिद्धितया गृहमध्यभुक्त
20
"Aho Shrutgyanam"|