________________
प्रथमोऽधिकारः
[ ११३
___15
परीक्षार्थ सर्वेषां भोजनं दापितं । सन्ध्यायां सर्वेषामेक एवं वासः, एकैव शय्या शयनाय दत्ता । ते सर्वे रात्रौ मिथो जगुर्ममायं शय्यापिता तेनाहं स्वपिमि । द्वितीयोऽवग-- अहमेव स्वपिमि । एवं पञ्चशतीमपि कलिपरां ज्ञात्वा मन्त्रिमा ज्ञातमेते सर्वे मूर्खा, येषामेकोऽपि न मुख्यः एते सर्वे स्वपाश्र्वे स्थापिता एवं कलिं करिष्यन्ति यस्यैकोऽपि न मुख्यः सन् किंचित्ततो न स्थापितास्ते एवं यत्र यान्ति तत्र न स्थाप्यन्ते ते । ततोऽखिलास्ते दुःखिनो 5 जाताः । एवमस्य कुटुम्बस्य राज्ञो वा न मेलोऽस्ति स विनश्यत्येव, अतः सर्वेरपि एकीभूय कार्यम् । इति मिथोविरोधे पञ्चशतसुभटकथा ॥१८५||
[186 ] अथ सरलत्वे श्रेष्ठिपुत्रकथा । एकस्य श्रेष्ठिनः पुत्रो जल्पितः प्रत्युत्तरं दत्ते । ततः श्रेष्ठिना प्रोक्तं-मो पुत्र ! पितुः प्रत्युत्तरो न दीयते । पुत्रस्तथेति प्राह । तत एकदा पुत्रो भोमाह्वो गृहे द्वारं दत्त्वा शय्याया- 10 मुपविष्टः ।
__ इतः श्रेष्ठी आगतः प्राह-भो पुत्र ! अत्रागच्छ द्वारमुद्घाटय। स च पितुर्वचः स्मरन् उत्तरं न दत्ते । घटीचतुष्ट्यानन्तरं स्वकार्यार्थ द्वारमुद्घाटयामास । श्रेष्ठो जगौ-त्वया कथमुत्तरो न दत्तः । पुत्रोऽवग-नोपूज्यैः प्रोक्तं-पितुः प्रत्युत्तरो न दीयते । पिताऽवगपुत्र ! एवं विधे कार्य उत्तरादि दायते । नतः पुत्रोऽवग्-ओमिति ।
एवं सरलत्वे श्रेष्ठिपुत्रकथा ॥१८६।।
[187 ] अथाशुचि समित्यादौ मोदकप्रियकथा । श्रीस्थलकपुरे भानुभूपस्य रुक्मिणी प्रिया सुरूपः पुत्रोऽभूत् । स च पश्चभिर्धात्रीभिवेर्द्धितो यौवनं प्राप परिणायितः । तस्मै मोदका एव रोचन्ते । ततो मोदकप्रियेतिनामाभूत् । स चान्यदा वसन्ते प्रातरुत्थायास्थानमण्डपिकायामाजगाम । तत्र स्वर्गिस्त्रोतुल्यया नृत्तं कर्तुं प्रवृत्तं । तत्र- 20 स्थस्य तस्य भोजनावसरे जनन्या मोदकभृतस्थलानि प्रेषितानि । यतः सपरिजनो मोदकान् बुभुजे । रात्रावपि गीताक्षिप्तजागरणतो मोदका न जीर्णाः । ततोऽधोगन्धपूतिवाति नासिकायां प्रविवेश । ततो दध्यौ-यथा मोदका वर्या अपि सदर्गन्धा जातास्तथासव शरीराद्यपि एवं विमृशन प्राप्तवैराग्यो मोदकप्रियरत्यक्त्वा कुटुम्बं दीक्षां लजौ । दीक्षां प्रपाल्य स्वर्ग गत्वा मुक्तिं याता ।
इत्यशुचि सर्वमित्यादी मोदकप्रियस्य कथा ॥१८७॥
[ 188 ] अथ माग्योपरि क्षत्रियसम्बन्धः । चन्द्रपुरे भोमक्षत्रियस्य वोरमती दुश्चारिणी पल्भूत् । पति बयित्वाऽन्येन पुंसा रमते रहः । सा च दध्यौ-यदि पतिम्रियते तदाह स्वेच्छया रस्येऽन्येन पुंसा, अङ्कुशो दुःशको विद्यते ।
25
"Aho Shrutgyanam"