________________
११२]
प्रवन्धक्चशती
[184] अथ शीले श्रीपतिकथा । श्रीपुरे धनः मार्थवाहस्तस्य श्रीपतिः पुत्रस्तस्य भार्या रूपवती, श्रीपतिः पत्नीयुतोऽत्यन्तं कामाभिलाषी क्षणमपि पृथस्थातुं न शक्नुते ।
एकदा श्रोतिबहून् बलीवान वस्तुभिर्भूत्वा महान्तं सार्थ कृत्वा विदेशं प्रतिचिचलिषुः 6 प्रियां प्रति प्राह -- अहं त्वां विना क्षणं स्थातुं न शक्नोमि । प्रिया प्राहाहमपि तथाऽस्मि ।
श्रीपतिः प्राह --त्वमम तिष्ठ, विदेशे स्त्रीणां प्रतिबन्धः स्यान्नृणां । रूपवत्यवग यदि त्वं मां साद्ध न नेष्यसि तदाहं मृता एव । ततः पति श्वशुरं श्वशं मातरं पितरं पर्यवसाय्य पत्या सह सशृङ्गारा पुरादहिययौ । श्रीपतिस्तुङ्गटिकायां स्थितः प्रियां प्रति प्राह-त्वं तिष्ठ गृहे, खियः प्रति
बन्धो भवति विदेशे, यदि सार्द्ध स्त्री न स्यात्तदा सुखेन व्यवसायः क्रियते । स्त्री प्राह-अहं 10 सर्वथा न तिष्ठामि, कदाग्रहं चक्रे, ततो रात्रिमध्ये प्रिया सुप्तां मुक्त्वा छन्नं श्रीपतिः स्वसेवक छन्नं पावें मुक्ला चचाल । प्रोक्तं. च--'यथा. करोत्येषा प्रिया तथा मम पार्श्व वक्तव्यम्' ।
इतः पश्चात्प्रहरे जागरिता रूपवती पतिमदृष्ट्वा सार्थमपि च चकिता रुदितुं लग्ना भो पते ! कथं मामनापृच्छ्थ गतोऽसि, अहं त्वयि मुधा स्नेह करिष्ये । त्वं तु निःस्नेहोऽभूः । एवं
विलप्य पुनः प्राह-अहं मुग्धा मम भर्ती कुशलोऽस्ति विदेशे नराणां स्त्रियः प्रतिबन्धो भवति 15 मां च सा मनेष्यत्तदा मम मोहेन द्रव्यं विनैव गृहे आगमिष्यत् । अहं तु अबला मूर्खा किमपि हिताहितं न जाने मया भुधा कदाग्रह कृतः । एवं प्रोच्य दध्यो आभरणसद्वत्रताम्बूलादिसर्व वस्तु रागकारणं भवति । एवंविधेषु वस्त्रादिषु सत्सु शीलं पालयितुं मया न शक्यते । भर्त्ता बहुभिर्वरागमिष्यति तथा फरोमि यथा शीलरक्षा भवति । ततः सर्वाण्यामरणान्यु. त्ताय धवलां शाटिका कम्बलिकां च परिधाप्याभरणवस्त्राणि ग्रन्थौ बद्ध्वा श्वशुरगृहे गता। 20 तदा तां तादृशीमागच्छन्ती दृष्टा श्रीपतिमाता दध्यौ-मम पुत्रोऽद्यैव किं केन हतो मृतो वा
रोगेण यतो वधूः एवंविधवेषाऽभूत् । ततो रुदितुं लग्ना तदा स्नुषाऽवग-मातर्मा रुदः । भवतः पुत्रः कुशलोऽस्ति । मया तु स कारणमेव एवंविधो वेषः कृतोऽस्ति । ततः स्नुषया स्वपति जल्पनस्वशीलरमणादिस्वरूपं धवलवस्त्रापरिधापनादिर्जगौ तं इति प्रोक्तं । ततः श्वर्जगौ त्वं धन्यासि
यस्याः स्वशीलरक्षायै ईदृग्मनोऽस्ति एतत्सर्वं पश्चान्मुक्तपुरुषमुखाच्छ्रोपतिः स्वपत्न्याः स्वरूपं 25 ज्ञात्वा जहर्ष । ततः कालान्तरे द्वादशवर्षप्रान्ते श्रीपतिधनं बहूपाज्य समागात्क्रमात्तयोः पुत्रत्रयं
जातं, महता महेन परिणायितं । अनेकास्तीर्थयात्राः कृताः । सप्तक्षेत्र्यां बहुधनं व्ययितं । देवगुर्वोभक्तिः कृता ताभ्यां ततो द्वावपि ब्रह्मवतं लात्वा स्वर्ग गतौ पश्चान्मुक्ति गमिष्यतः ।
इति शीले श्रीपतिकथा ||१८४॥
[185] मिथो विरोधे पञ्चशतसुभटकथा । एकस्य राज्ञो मोमस्य बुद्धिसारो मन्त्री कुशलो बभूव । एकदा राज्ञोक्तं-भो मन्त्रिन् ! त्वया परीक्ष्यैव सेवकाः स्थाप्याः । से अत्रान्तरे सुभटानां पञ्चशती समागात् । राज्ञों मिलिताः सन्मानिताः । ततो मन्त्रिणा
25
"Aho Shrutgyanam"