________________
प्रथमोऽधिकार
[ १११
भिक्षा । ततो गुरुणोक्तमसः परं त्वया तस्याः सियो गृहे भिक्षायै न गन्तव्यं । साधुना तथेति प्रतिपन्नम् । इति विनीत शिष्यसंबंधः ।।१८१॥ .
[183] अथ गुरुभक्तसाधुसम्बन्धः । एकया स्त्रिया साधुद्विष्टया विषमिश्रिता भिक्षा साधवे दत्ता यावत्तां लात्वा निर्गतः तावत्तस्य शिरोऽतिर्जाता । गुरूणां पार्थे ऽभ्येत्य शिरोतिभिक्षाप्राप्तिसम्बन्धः प्रोक्तः साधुना । गुरुणा गन्धेन 5 विषं ज्ञातं । ततो रक्षया मिश्रितं कृत्वा परिष्ठापितम् , एवं ये गुरुपार्श्व स्वं भावं प्रकाशयन्ति ते सुखिनः स्युः । इति गुरुभक्तसाधुसम्बन्धः ॥१८२॥
[183 ] अथ लेपश्रेष्ठिकथा मिथ्यात्वत्यागे । राजगृहपुरे लेपवेष्ठि मिथ्यात्ववासिताशयोऽभूत् : तस्य शिवभूतिनामा तापसो गुरुरासीत् । तस्योपदेशेन श्रेष्ठी वापीकूपतटाकपादिवृक्षारोपणादिकृत्यानि बहूनि धर्मबुद्धया कारयामास ! 10 श्रेष्ठी तु यदा शिवभूतिरागच्छति तदा चतुःपश्चयोजनानि सन्मुखं याति । एकदा शिवभूतिः स्वं यजमानं वन्दापयित्वा स्वस्थाने गतः।
इतस्तत्र पुरोद्याने श्रीवीरजिनः समवासार्षीत् देवैः समवसरणं कृतम् । अनेके देवा राजानो जना वन्दितुं ययुः । तदा श्रीवीरं वन्दितुं मित्रस्य जिनदत्तस्य धर्मिष्ठस्य सार्थे लेपः श्रेष्ठी ययो, प्रभोधर्मोपदेशं श्रुत्वा श्राद्धधर्म प्रपेदे । ततः प्रपादि न पूरयति स्नानादिमिथ्यात्वं न कुरुते, ततो 16 लोका मिथ्यात्विनो वदन्ति अयं श्रेष्टी मूर्खः कुलक्रमागतं धर्म त्यक्त्वा जैन धर्म कुरुते । श्राद्धास्तु प्रशंसां कुर्वन्ति-'अयं धन्यः पुण्यवानिति' । श्रेष्ठी तु लोकोक्तं किमपि मनसि नानयति, स्वेष्टं जैन धर्म करोति । यतः
सर्वथा स्वहितमाचरणीपं, किं करिष्यति जनो बहुजल्पा । विद्यते स नहि कश्चिदुपायः, सलोकपरितोषकरो य: ॥१॥
28 इतः शिवभूतिस्तत्रागतः। श्रेष्ठी तु संमुखं न गतः, ततस्तापसो दध्यौ-अयमने पञ्चयोजनानि सन्मुखमायाति, ममोत्तारेऽपि नायाति ततो लोकमुखातं श्राद्धं श्रुत्वा स्वं शिष्यमाकारणार्थ प्रेषीत् । स तं शिष्यमागतमपि श्रेष्ठी न जल्पयामास न नमति । तदा स पश्चागत्वा स्वगुरोः पार्वे यजमानस्य स्वरूप प्राह । ततस्तापसोऽभ्येत्यावग्-त्वं केन विप्रतारितोऽसि, येन मां मुक्त्वाऽत्रास्थितः उत्थानाद्यपि न कुरुषे, अहं गुरुस्तवासि ।
26 लेपः प्रह-त्वं स्नानादि कुर्वन् कारयन् अनुमोदयन् दुःखी भविष्यति जीवहिंसातः। इत्यादि प्रोच्य तं गुरुं त्यक्त्वा श्रीधीरोक्तं धर्म कृत्वा क्रमादीक्षा गृहीत्वा सर्वकर्मक्षयान्मुक्ति गतः।
इति लेपश्रेष्ठिकथा मिथ्यात्वत्यागे ॥१८३॥
"Aho Shrutgyanam"