SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ११. ] प्रबन्धपञ्चशती टोहनार्थ गर्दभं बर्जर खादन्तं वीक्ष्य भाषासमित्या जगौ "रे कुमाणुस १ कुरूपि चड्यो २ ताहरउं कुधन ३ कुलंठ ४ खायइ ।" एतत् श्रुत्वा ढेढः सावधानोऽजनि । ततः क्षेत्रं रक्षितं तेन एवं बुद्धिमद्भिवक्तव्यम् । इति भाषासमितिजल्पने देवदत्तसम्बन्धः ॥१७॥ [179 ] पुण्योपरि चतुर्वणिकपुत्रसम्बन्धः । एकस्मिन् पुरे चत्वारः श्रेष्ठिपुत्रा बभूवुः । क्रमात् श्रेष्ठिना परलोकं गच्छता पुत्रेषु धनं वितीर्य कुटुम्बभार स्थापितः । ते तु पृथग्भूताः, वृद्धः पुत्रो यानं क्रयाणकभृतं कृत्वाब्धौ चचाल । अन्यस्मिन् द्वीपे गत्वा चतुर्गुणं लाभं प्राप्यागात् स्वपुरं । द्वितीयस्तु यानं भृत्वा क्रयाणकैश्वचालाब्धौ स च दैवयोगात्सर्व निर्गम्य स्वपुरमागात् । तृतीयस्तु परिधानवस्त्रसस्खा 10 चचालान्यदेशे भूरिधनमजयित्वागात् । चतुर्यस्तु बाहुसखा चलितो बाहुसखा समागात् । एवं केचित्सुपुण्या जीवाः पश्चाद्भवादागच्छन्ति कृतसुपुण्याः परत्र सुखिनो भवन्ति, भरत-बाहुबल्यभयकुमारादिवत् १ । केचित्सुपुण्या आगच्छन्ति अकृतपुण्या यान्ति कोणि १२ । केचिन्निष्पुण्या आगच्छन्ति सुपुण्या यान्ति परत्र च कालिकसूरिकपुत्रवत् ३ । केचिनिष्पुण्या आगच्छन्ति निःपुण्या गच्छन्ति दुःस्थपुरुषवत् ते नु इहामुत्र दुःखिनः । इति पुण्योपरि चतुर्वणिक्पुत्रसम्बन्धः ॥१७९|| [ 180] स्वपापप्रकाशक-कौटुम्बिकपत्नीसम्बन्धः । एकया कौटुम्बिकस्त्रिया पत्युशीकाराय परिव्राजिकापार्थात् कूरः चूर्णेनाभिमन्त्रितः । तया स्त्रिया अनुकंपया ध्यातं कदाचिदनेन चूर्णेन पतिर्भूतो भविष्यति तदा मम का गतिः, एवं ध्यायन्त्या तया कूर उत्करटके क्षिप्तः । स कूरस्तदा गईभेन भक्षितः । खरस्तस्य गृहद्वारे 20 समेत्य द्वारं पुनः पुनर्घट्टयति रारटीति, ततः पत्नी पत्या पृष्टा, किमेष खरो द्वारं वारितोऽपि घट्टयति पुनः पुनः, ततस्तया स्वचेष्टितं प्रोक्तं तेन । ततः पत्नो सविशेष मानिता परिव्राजिका दण्डापिता । एवं जीवः स्वपापप्रकाशक: सुखी स्यात् ।। इति स्वपापप्रकाशककौटुम्बिकपत्नीसंबंधः ॥१८०॥ [ 181 ] अथ विनीतशिष्यसंबंधः । एका खी सुरूपं साधं दृष्ट्वा कामेच्छया भिक्षा चूर्ण मिश्रितां कृत्वा तस्मै ददौ । सोऽपि साधुरात्तभिक्षः तामेव त्रियं हृदि स्मरन् गुरुपार्श्वे समागात् । गुरुहस्ते दत्ता यावत्तावद्गुरूणामपि मनस्तस्य नार्या विषयभोगासक्तं जातं । ततो गुरुणा साधुः पृष्टा भिक्षा प्राप्तिसम्बन्धः । साधुना यथाप्राप्तः प्रोक्तः । ततो गुरुणा रक्षया इक्षितं कारयित्वा परिष्ठापिता 15 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy