________________
प्रथमोऽधिकार
[ १०९ [177] अथ दक्षत्वे मत्स्यसम्बन्धः । एकस्मिन् जलाशये मत्स्यान् धर्तुं मत्स्यबन्धेन मांसं यन्त्रबद्धं कृत्वा मुक्तं तदा तत्रैको मत्स्यो विचक्षणस्तत्र शनैः शनैः समेत्य यन्त्रस्य परितः स्थितं मांस भक्षयित्वा पृथक्तिष्ठति । क्रमास मत्स्यः सर्व मांसमाद । ततो मत्स्यबन्धे सावधानीभूते सति पुच्छेन जलं हन्ति मत्स्यः तदा मत्स्यबन्धकस्तं तथाविधं मत्स्यं दृष्ट्वा दध्यावेवमसौ यन्त्रे न पतिष्यति ततश्चैवं ध्यायन्तं मत्स्यबन्धकं दृष्ट्वा मत्स्योऽवग-अहमेकदा बलाकया गृहीतो यदा तदा बलाका मां मुखे क्षिपति यदा तदाऽहं वक्रो भवामि । ततो बलाकया मुक्तो जलेऽगमं । पुनर्बलाकया पूर्ववद्गृहीतो जलेऽगममेवं वारत्रयं बलाकामुखे वक्रत्वेन पतित्वा नष्टः । ततोऽब्धौ गतः, तत्र मत्स्यबन्धेन वलक (य) मुखानि मण्डितानि दृष्टानि मया, तेषु वलयमुखेषु पतितोऽहं २५ वारा बलयमुखं त्रोयित्वा कदाचिन्मायया मृतप्रायो भूत्वाऽऽस्थाम यदा तदा मत्स्यबंधो मां मह्यां मुमोच । ततोऽहं नंष्ठा जलेऽपतं दैवयोगादहं जले स्थितः क्रमाद् हृदः शुष्कः मत्स्यबन्धस्तत्रागात कियन्तो मत्स्या मृताः कियन्तो गृहीतास्तेन । ततोऽहं मत्स्यः शलं मुखे स्वयं क्षिप्त्वाऽऽस्थां । ततो मत्स्यबन्धो दध्यो-अयं मत्स्यो मृतः । ततो मत्स्यबन्धोऽन्यस्मिन् हृदे गतः यावत्प्रक्षालयितुं लग्नो मत्स्यान् तावदहमुत्प्लुत्य जलेऽगमम् । सोऽहं मत्स्यो भवता ग्रहीतुं वाञ्छयते । तेन ते महती धृष्टता, अहं तु बहुधृष्टोऽभूवं । यो बहुस्थानेषु धृष्टः स कुत्रापि न बध्यते, यतः
(गलमसंडगभक्खण गल्लस्स पुच्छेण घट्टणया । )* अह मंसंमि पहाणो, वायं मच्छियं भणइ मच्छो। किं झायसि तं एवं, मुणु भाव जहा अहरिओसि ॥१॥ तिबालगमुहे मुक्को, तिखुत्तो वलयामहे । तिसत्तखुत्तो जालेन, सयं छन्नोदए दहे ॥२॥ एयारिसं महं सत्तं, मज्झ घट्टीअथट्टणे ।
इच्छंसि तं गले वित्तुं अहो ते अहरिया ॥३॥ एवं प्रोच्य मत्स्यो जले गतः । एवं जनः कदाचिद्बहीषु आपत्सु आगतासु जीवति सम्पदं लभते । एवं यः स्वकार्ये पुण्यं वा कुर्वन् अन्येन न छल्यते स सुखी भवति ।
___ इति दक्षत्वे मत्स्यसम्बन्धः ॥१७७||
[178] भाषासमितिजसपने देवदत्तसम्बन्धः । एकस्मिन् प्रामे देवदत्तः पुमान् देवस्य मालाया,२ बर्जरिकाया३ गर्दभस्य च नाम न गृहाति, सपापत्वात् । स चान्यदा स्वक्षेत्रे बर्जरीशालिनि गतः सन् तदा मालाचटितं डेढ़ * इयं गाथा सम्पूर्णा नोपलभ्यत्वे कुत्रापि । संपा०
"Aho Shrutgyanam"