________________
२०८ ]
प्रबन्धपञ्चशती
सापायो दृश्यते । तेन यूथेशेनोक्तं ये चक्रस्ते सुखिनो जाताः ये च न चक्रुस्ते मृताः । एवं ये गुरुमातृपितृस्वामि मित्रादिवचः कुर्वते ते सुखिनो भवन्ति नेतरे ।
इति हितोपदेशे वानरयूथसम्बन्ध || १७४ |
[175 ] अथ विनये परस्परं भद्रिका साधुसम्बन्धः ।
एकस्मिन्ग्रामे भद्रा श्राविका वसति । तस्याश्चेद्र्यस्ति । अन्यदा भद्रिका क्षेत्रे गता । साधवस्तस्या गृहे भिक्षार्थमाययुः । चेटीं धर्मलाभयामास तदा चेट्या कुरो दत्तः साधुभ्यः । साधुना मुद्गा मार्गिता: तया तेऽपि दत्ताः । पुनः पुनः मार्गितं घृतदध्यादि दत्तं च । साधुर्गतः भद्रिकाता जेमितुमुपविष्टा कूरं याचितवती, चेटी साधवे ददे क्रूरः, भद्रिकाऽवग्वर्यं कृतं मुद्गा मार्गिता भद्रिकया, चेट्योक्तं साधवे दत्ता एवं यद्यद्याचते तत्तत्साधवे 10 दत्तमिति चेट्योक्तं भद्रिका रुष्टा । गुरुपार्श्वे गत्वाऽवग्- भगवन् ! युष्माकं साधव अनीदृशा विद्यन्तं । यतो मद्गृहसत्कं यतयः क्रूरमुद्रदध्यादि याचित्वा ललुर्दासीपार्श्वात् । ततो गुरुभिः साधूनाकार्योक्तं - भो साधव ! एवं विहरणे पापं लगति सारणादिः प्रोक्तं च । ततः स साघुरुत्थाय गुरुं प्रणम्य जगौ --अहमय रसमृद्धोऽभूवमद्य मयैवं कृतमतः परं न करिष्ये । ततो भद्रिकाऽपि साधुवचः श्रुत्वाऽवग्- अहं मुग्वाऽभूवं यद् गुरव उपलम्भिताः, 15 ततो मिथो गुरुसाधुभद्रिका मिथ्यादुष्कृतं चक्रुः ।
एवं चिनये परस्परं भद्रिका साधुसम्बन्धः ॥ १७५॥
5
[ 176 ] स्वपरिवारचिन्ताकरणवणिक्पत्नीद्वयसम्बन्धः ।
एकस्मिन्पुरे द्वौ सोदरौ वणिजौ जातौ । तयो रूपश्रीधर्मत्रियौ प्रिये । ताभ्यामभ्यस्मिकृषिण्डिता । एकस्य महिला प्रभाते उत्थाय मधूदकेन मुखं प्रक्षाल्य दन्तान् धावयित्वा 20 वर्षाभरणवस्त्रैर्भूषिता तिष्ठति । सा च कर्मकराणां सारां न चक्रे । एवं कुर्वत्यास्तस्याः कर्मकरादयो गताः । क्रमाद् गृह कर्मलक्ष्म्यादिरहितं जातं । ततः सा दुःखिनी जाता ।
25
अन्यस्य भ्रातुः पत्नी पुत्रपौत्रसेवककर्मकरादीनां सारा भोजनादिना तु कुर्वाणा भुङ्क्ते । आभरणादि च परिधत्ते स्म । ततस्तस्या गृहं सदा पुत्रकर्मकरलक्ष्म्यादिभृतं जातं । ततः सा चिरं सुखिनी जाता ।
एवं यः साधुरन्यो वा गृहस्थः आत्मनः सारं करोति नान्येषां परिवारसत्कानां स दुःखी स्यात् प्रथमभ्रातृपत्नीवत् । यस्तु साधुर्गृहस्थो वा स्वपरिवार चिन्ता कृत्वा आत्मचिन्तां करोषि स द्वितीय भ्रातृपत्नीवत् सुखी भवति ।
इति गृहसारासारकरणदोषादौ - स्वपरिवार चिन्ता करणवणि पत्नीद्वयसम्बन्धः ॥ १७६॥
"Aho Shrutgyanam"