________________
प्रथमोऽधिकार
[ १०७ [179] अथ स्ववैरिवालनकथा । श्रीपुरे भोमो राजा राज्यं करोति । तस्य मस्तके टालिः पतिता। रोमाणि न निर्गच्छन्ति । तदा टालिस्फेटनाय वैद्यपार्श्वे औषधं पृच्छति स्म । तदा एकदा तस्मिन्प्रामे आरामिकेण वाटिका रोपिता। त्रपुसीप्रमुखफलानि वर्याणि जातानि । अन्यदा वाढीपार्श्व गच्छन् कोऽपि धूर्तों वैद्यः त्रपुसीकृते प्रविष्टः । तदा तेन ताडितो हकिकतश्च रे दुष्ट! त्वं मम वादयां प्रविशसि कि ? ततो 6 धूर्तो प्राममध्ये गत्वा दध्यौ कांबिकस्य मया शिक्षा दास्यते । ततो राज्ञो मिलितः । राज्ञा पृष्टश्च कानि कानि शास्त्राणि भणितानि भवता ? तेनोक्तं-वैद्यक-यन्त्रमन्त्रचूर्णवशीकरणादिशा. खाणि भणितानि मया । ततो राजाऽवग-भो वैद्य ! तथा कुरु यथा मम टालिफति । धूतोंऽवग-अमुकारामिकवाटी सवृत्तिः प्रज्वाल्यते तस्य यद्भस्म स्यात्तेन यदि मस्तकं खरण्टयते सप्त दिनानि यावत्तत्तदा टालियति । ततो राज्ञादिष्टः सेव कस्तो वाटों भस्म्यकार्षीत् । तदा तत्रागत्य 10 धूर्तोऽवग-वाटी किं रक्ष्यते, तेन ततो मालिकोऽवग-भो धूत्ते ! मयापराधो यः कृतः स क्षम्यतां । ततो राजा जगौ-कथं मस्तके रक्षा लगाप्यते । धूर्तोऽवग -भवता मस्तकं रक्षया लगयता घोटिका न स्मरणीया । ततः सप्त दिनानि राजा रक्षा मस्तके लगयामास घोटिका स्मरन् , सप्तदिनादनु स धूर्तोऽवग-कथं रक्षा लगिता शिरसि । सा मम मनसि घोटिका यातीति स्मरन् रक्षा लगयामासाहं । ततो धूर्तोऽवग-तव घोटिका विस्मृता न, तेन टालिन गता। 16
इति स्ववैरिवालने कथा ॥१७२।। [173] अथ पतितपुष्पचटापने नीचकुलप्राप्तिसम्बन्धः । चाण्डालस्य पल्या सदन्तः पुत्रो जनितः सन् त्यक्तः अवकरे, स चापोत्कटेन भूपेन गृहीतः वर्द्धितः सर्वेषां मान्योऽभूत् । क्रमाकेवली राज्ञा पृष्टः । असौ पुत्रो मया पालिनः । अनेन किं पुण्यं कृतं पुरा ? केवली जगौ-अनेन पुत्रेण श्रीजिनेन्दस्य पूजां कुता एकदा पयस्तिकाया 20 अधः पतितं पुष्पं प्रभोश्चदापितं भक्त्या, भक्तिपूजाप्रभावात्तव पालितपुत्रोऽखिलराजपूज्यमानोऽभूद्यदनेन पतितेन पुष्पेण प्रभुः पूजितः तेन चाण्डालकुलं प्राप्य तव पालितपुत्रता प्राप । ततः प्रमुपूजाप्रभावात् भवे भवे वर्द्धमानां श्रियं प्राप्य मुक्ति यास्यति ।
इति पतितपुष्पचटापने नीचकुलप्राप्तिसम्बन्धः ।।१७३। [174 ] अथ हितोपदेशे वानरयूथसम्बन्धः ।
26 एकस्मिन्बने वानरयूथपतिः शुष्कवनं दृष्ट्वा वानरान्प्रति प्रोवाच ! गच्छत यूयं शाड्वलं वनं पश्यतां । ततस्ते वानरा वनं वीक्ष्य यूथपतेः पुरः प्रोचुः-ततो यूथपतिर्वानरैस्तस्मिन्वने ययो, शाडूवलानि तृणानि र्याणि फलानि भक्षितानि तैः । द्रहे पयः पातुं ययौ यूथयतिः । तदा तत्र यूथेशस्तस्मिन् द्रहे पयः पातुं आगच्छता पशूना पदानि दृष्ट्वा पश्चाद्वलमानानामदृष्ट्वा यूयेशो जगौ-भो वानरा! यूयं नलिनीपत्रः पयोऽत्र पिबन्त न च मध्ये प्रवेष्टव्यं । अयं हृदः 30
"Aho Shrutgyanam"