________________
१०६ ]
प्रबन्धपञ्चशती
स्वपिति, एवंविधानां मांसानि च खादन्ति" । एवंविधदोहलेन दुर्बलाऽभूधारिणी, राज्ञा दुर्बलकारणे पृष्टा राज्ञी स्वदोहदोत्पत्तिस्वरूमं जगौ । ततो राज्ञी दोहदस्वरूपं सेवकानामग्रे प्रोक्तं । ततस्ते सेवका जगुः। तेषां मृगाणां श्रीपॉफलाहारो वल्लभो भवति । यत्र श्रीपर्णीफलानि भवन्ति तत्रावश्यं भक्षयितुमायान्ति । अधुना श्रीपर्णीफलभवनकालो नास्ति तेन कृत्रिमाणि श्रीपर्णीफलानि कृत्वा श्रीपर्णीवृक्षाणामधो मुच्यन्ते । तेषु ते मृगाः समायान्ति भक्षयितुं तानि, सतो ध्रियन्ते मृगाः, तान् हत्वा राज्या दोहदः पूर्यते । एवं विचार्य राशा कनकपृष्ठमृगग्रहणाथै सेवकाश्चालिताः, ते च तस्मिन्वने गताः, श्रीपर्णीतरूणामधः कृत्रिमश्रीपर्णीफलैः पुजाः कृताः । ते नृपसेवकाश्छन्नं स्थिताः । तदा शनैः शनैः कनकमृगाः श्रीपर्णीफल
पुजं दृष्ट्वा यूथपतेः पुरो मृगा जगुः-श्रीपर्यः फलिताः। ततो यूथपतिस्तत्राभ्येत्य श्रीपर्णी10 फलपुब्जान वीक्ष्य दध्यौ-अस्मिन्काले श्रीपर्णीफलानि न भवन्ति । कदाचिद्भवन्ति तदा पुब्जा
न भवन्ति । वायुवशात्कदाचित्पतन्ति तदा पुञ्जा न भवन्ति । इत्यादि ध्यात्वा यूथपतिः प्राह-अत्र केन कूटं कृतमस्ति तेन वृक्षाणामधो न केनापि यातव्यं, यूथपतिना प्रोक्ता ये न तत्र गतास्ते सुखिनोऽभूवन ये च गतास्ते हताः । एवं येऽहंदुक्तं गुरुवचनं कुर्वन्ति ते स्वर्गादिभाजः स्युः, ये जना न कुर्वन्ति गुरूवतं ते नारकादिदुःखभाजो भवन्ति । इति जिनेन्द्रगुरुमातृपितृसुहृदादिवचःपालने दृष्टान्तः ॥१७०॥
[171] अथ हितोपदेशे कथा । हत्थिरगहणं गिम्हे, अरहदेहिं भरंतु सरसीणं । अद्धदए नलवणा, अभिरूढा गयकुलागमणं ॥१॥ बिइअ मेअं गयकुलाणं, जयारोहति नलवणा ।
अन्नया वि झरति झरा, नय एवं बहु उदगा ॥२॥ श्रीपुरे अरिमईनभूपस्य हस्तिनां ग्रहणेच्छाऽभूत् । तेन राज्ञा कुञ्जरग्रहणार्थ पुरुषा आदिष्टाः । ततस्ते राजपुरुषा दध्युरिति यत्र हस्तिनस्तिष्ठन्ति तत्र नलवनं शुष्कं ग्रीष्मकाल जलं तत्र नास्ति तेनारघट्टकरणसरणिप्रयोगेण जलं कर्षयित्वा नलवणमारोप्य सिच्यते । ततो नलवनं प्ररूढं
हरितमयं नलवनं दृष्ट्वा हस्तिनो यूथपतेः पुरः प्रोचुः-नलवनं प्ररूढं तत्र गम्यते नलवनतृणानि 25 भक्ष्यन्ते । ततस्तत्र समीपे समेत्य सरणिप्रयोगेण पानीयमागच्छत् प्ररूढं नलवनं दृष्ट्वा हस्तीश्व--
रोऽपरेषां हस्तिनां पुरः प्रोचुः-ग्रीष्मकाले एवंविधं जलं न दृश्यते । पुरा कदाचिद् दृश्यते चेत्तदा एवंविधानि न तृणानि दृश्यन्ते । तेनात्मनां ग्रहणार्थ केनचित्कूटं कृतमस्ति । अत्र न स्थीयते । तृणानि न भक्ष्यन्ते । एवं यूथपतिना प्रोक्ताः केचिघूथपतिप्रोक्तं मन्यन्ते स्म केचिन्न मन्यन्ते ।
यैह स्तिभिः स्वामिवचः प्रतिपन्नं ते सुखिनोऽभूवन् । यैर्न प्रतिपन्नं ते धृता हता दुःखिनोऽभूवन् । 30 एवं यैर्गुरुमातृपितृतीर्थकद्वचो मेने ते स्वर्गादिसुखभाजोऽभवन् , यादिवचो न मेने ते
नरकतीर्यग्भवादिदुःखं प्राप्यते । इत्यादिहितोपदेशे कथा ॥१७॥
20
"Aho Shrutgyanam"