________________
-१०२ ]
प्रबन्धपश्चशती
15
अन्यदा पितृव्यं परिपृच्छयान्यत्र प्रामे व्यवसायार्थ गतः तदा तस्य ग्रामस्याधीशे मृते भूपपुत्रः पद्मो राज्ये उपविष्टः । चन्द्रस्तस्य पार्श्व उपयाति । क्रमास मन्त्री कृतो राज्ञा । ततश्चन्द्रो वयवेषभृत् बहुसेवकेभ्यः परिवृतो राज्यचिन्तां करोति बहुसेवकैदैत्तहस्तश्चलति । चन्द्रः सेवकाः शयने उपवेशयन्ति । तं पादुकादि संपरिधापयन्ति शयनोपवेशनावसरे पादौ तस्य चम्पयन्ति । चलतस्तस्य मार्ग दर्शयन्ति, जल्पने जी-जी कुर्वन्ति । एवमिभ्या अपेतना मन्त्रिणोऽपि जी-जी शब्द कुर्वन्ति स्म ।
इतो धीरोऽन्येन जनेनोक्तः-भो श्रेष्ठिन् ! भूपस्यातीवमान्यो जातोऽस्ति, भवता पालि - तोऽस्ति तत्र गम्यते तत्रापि सन्मानदानप्रीणनं करिष्यति । ततः श्रेष्ठी तत्र पुरे गतः । राजमार्ग
भ्रातृजं जनहस्त विलग्नं गच्छन्तं दृष्ट्वा तत्रागच्छतिः श्रेष्ठी । राज्यमदलक्ष्म्यन्धीभूतो भातृजश्चन्द्रः 10 पितृव्यस्य संमुखमपि न विलोकयति । ततो मध्याह्ने कथंचिद्वारपालक मानचित्वा भ्रातृजपाचे
गतः । भ्रातृजस्तु भुक्त्वा शयने सुप्तोऽभूत् । तदा एके तेन समं वार्ता कुर्वन्ति । एके पादौ चुम्पन्ति । एकस्तु पत्राण्यप्र्पयति नागपत्राणि छागवद्भक्षयति । एवं कुर्वन् चन्द्रः पितृव्यस्य संमुखमपि न विलोकयति । ततः पश्चात्स्वगृहे समागतः श्रेष्ठी लोकः पृष्ट:-भ्रातृजेन किं दत्तं ? कथं कथं सन्मानितो भवान् ? श्रेष्ठ्यवग-अधुना भ्रातृजो मन्दोऽस्ति स च तेन मां नोपलनयति । लोकोऽवग-नीरोगभवनं यावत् कि न स्थितं, कथं नीरोगो भविष्यति । श्रेष्ठी प्राह-पञ्च वा सप्त वा नव्यागात्यतुल्यवैद्या नीरोगं करिष्यन्ति ।
इतोऽमात्यैश्चन्द्रस्य चाडिकां कृत्वा कारागारे चन्द्रः क्षिप्तः । राज्ञा सर्व धनं गृहीतं बाहुसखाकृतश्च । ततो दध्यौ चन्द्रः कथमहमितो गुप्तिगृहान्निःसरिष्यामि । ततो गुप्तिगृहेषु सुप्तेषु
छन्नं निर्गत्य स्वपुरमागाच्चन्द्रः 'काका जुहारेति' 'वदन्मिलितः काकोऽवग-भ्रातृज ! कथं 20 नीरोगता ते जाता ? भ्रातृजोऽवग-राजदण्डामात्यवैद्यैः नीरोगोऽहं कृतः । ततः श्रेष्ठी प्राह-वयं
जातं यत्त्वं नीरोगोऽभूः । भ्रातृज! धनेनैवमन्धीभूयते । अहं तत्रागतोऽपि त्वया न वीक्षितः । ततः उत्थाय चन्द्रः पितृव्यपदोः पतित्वा झमयामास स्वापराधं मम शिक्षा ददत्स्व ! ततः पितृव्योक्ते पुण्यमार्गे भ्रातृजो लग्नः । इति लक्ष्मीमदे चन्द्रसम्बंधः ॥१६॥
[162] अथ कृपणत्वे भेष्ठिसम्बंधः । 25 श्रीपुरे भीमश्रेष्ठी कृपणः स्तोकमपि धनं न व्ययति धर्म गृहे च । एकदा श्रेष्ठी पुत्रं सप्प
दष्टं मत्वा दध्यावसौ अत्र पुरे गारुडिकोऽस्ति । स च सर्पदष्टं ५० दीनारैः, वृश्चिकदष्टं चतुर्भिद्रम्मै वयति । यदि सर्पदष्टं कथयिष्यामि पुत्रं तदा ५० दीनारान् मार्गयिष्यति । ततो वृश्चिकदष्टं पुत्रं कथयिष्यामि । ततो मन्त्रज्ञपार्श्वे पुत्रं नीत्वा श्रेष्ठी प्राह-वृश्चिकदष्टं मत्पुत्रं निर्विषं कुरु ।
४ द्रम्मा दास्यन्ते । ततो मन्त्रज्ञो वृश्चिकमन्त्रं जपन्नभूद्यावत् तावत् श्रेष्ठ्याह-सर्पस्यापि मन्त्रो 30 जपनीयोऽन्तराले। ततो मन्त्रज्ञोऽवग ५० दीनारान् देहि । श्रेष्ठी तु कृपणत्वात् न दत्ते । ततः पुत्रो मृतः । कृपणत्वात् पुत्रो मृतः सेहे ।
इति कृपणत्वे श्रेष्ठिसम्बन्धः ॥१६२॥
"Aho Shrutgyanam"