________________
प्रथमोऽधिकारः
[ १०१ हस्ती एकस्यापि राजपुत्रस्योपरि न पूर्णकलशं ढोलयामास । ततो हस्ती पुराद्वहिगत्वा सरःपाली सुप्तस्य बालकस्योपरि कलशं ढोलयामास । ततः शुण्डयोत्पाट्य तं स्वस्कन्धे चारोपयामास । ततो लोका जगुः - असौ राजा कामकेल्या वेश्यायाः पुत्रोऽतः कथमस्य प्रणामः करिष्यते ! तदा व्योम्नि वाणी बभूवेति अनेन पूर्वभवे जिनाच कृता तेन राज्यं जातं । एकदा च जातिगर्वः कृतस्तेन नीचकुले जातः । ये भूपपुत्राः सन्ति अल्पयुण्यास्तेन तेषां राज्यं न जातं । ततस्तस्य मन्त्रिभिर्नन्दभूप इति नाम दत्तं । ततो राजा स प्रभोः पूजां कुर्वाणः सर्वान् राजपुत्रान् यथोचितं मानयन् भूरिशो जिनप्रासादान् कारयामास । यात्रां तीर्थेषु चक्रे । ततो न्यायमार्गेण पृथिवीं पालयन स्वर्गं गतो राजा क्रमान्मुक्ति गन्ता ॥
इति कर्मोपरि बेश्यापुत्रकथा || १५९ ॥
5
[160] अथ क्रोधमानमायालो भविषये सर्वलोक भूपवणिग्मंत्रिविप्रसम्बंधः ।
एकस्मिन्पुरे चतुरशीतिचतुर्ह श्रेणिषु यद्विलोक्यते तल्लभ्यते । राजा च चन्द्रः, मन्त्री सोमः । श्रेष्ठिनः सामन्ता वणिक्पुत्रादयो बहवः सन्ति च । यद्यद्वस्तु तत्रायाति तत्तत्सवं लोकैर्गृहयते इति ख्यातिः सर्वत्राऽभूत् । तदा मोमपुराधीशेन कमलेन परीक्षार्थं छारपुञ्जादिभिरष्टौ शकटानि भृत्वा प्रेषितानि । तस्मिन्पुरे लोका वस्तु गृहीतुं समागताः । छारपुञ्जादि दृष्ट्वा यदा लोकाः पावलिरे तदा वस्तुस्वामिभिः प्रोक्तम् - अपराण्यपि शकटान्यानीताति सन्ति, तेषु यद्वस्तु विद्यते I5 तद्गृह्यतां । लोका जगुस्तानि दर्शयथ । ततस्तैरुक्तं शकटद्वये मानोऽस्ति । शकटद्वये क्रोधोऽस्ति । शकटद्वये लोभोऽस्ति । शकटद्वये मायाऽस्ति । यदि भवद्भिर्वस्तु न गृह्यते तदा युष्माकं पुरस्य ख्यातिर्गमिष्यति । तदा बहुभिर्लोकैर्मिलित्वा चत्वारि क्रोधमानमायालोभशकटानि गृहीतानि । द्रव्यं दत्तं जल्पितं । ततः सायं स्थितं शकटचतुष्टयं राजद्वारे नीतं । तैः प्रोक्तं यद्येतानि शकटानि पश्चाद्यास्यन्ति तदा पुरस्यास्य ख्यातिर्गमिष्यति । ततो लोभशकटं राज्ञा गृहीतं, ततो 20 भूपा अतृप्ता जाताः । मायाशकटं वणिग्भिगृहीतं, ततो मायावन्तो वणिजो जाताः । मानशकटं मन्त्रिभिर्गृहीतं, ततो मन्त्रिणो मानिनो जाता, यतो मन्त्रिणो जगतृणं मन्यन्ते । क्रोधशकटं विप्रैर्गृहीतमतस्तेषामतीव क्रोधोऽभूत् ।
इति क्रोधमानमायालोभविषये सर्वलोक भूपवणिग्मन्त्रिविप्र कल्पिताः स्वयंज्ञेयाः ॥ १६०॥ [161] अथ लक्ष्मीमदे चन्द्रसम्बन्धः ।
घोर श्रेष्ठिनः वीरो भ्राता लघुरभूत् । धीरस्य पुत्रास्त्रयो जाता, वीरस्यैक एव चन्द्रः पुत्रः । अन्येयुर्भ्रातरि मृते चन्द्रो धीरस्यातीव वल्लभोऽजनि । यदा जिमति धीरस्तदा स्वस्य मध्ये जिमयामास । सृष्टान्नपानवस्त्रभूषणताम्बूलादिदानैश्चन्द्रं धीरः प्रीणयति पोषयति च । क्रमात् पितृव्येन भ्रातृजो विद्याः पाठितः ।
"Aho Shrutgyanam"
10
25
एकदा चन्द्रोsar - काका अहं लक्ष्मीमर्जयितुं यामि । पितृव्यस्तु मोहाचन्द्रमात्मनः सकाशा- 30 दन्यत्र न प्रेषयति ।