________________
१०० ]
प्रबन्धपाशतो
एकेन पृष्टमन्यस्याने-मस्तके चदितं किं किं शुभं भवति किं किमशुभं च ? यदा च केनापि न ज्ञात तदैकेन श्राद्धेन बुद्धिमता प्रोक्तं-मस्तके चटिता मुकुटमस्तकशीर्षिका पुष्पबोरसिन्दूरवेणीप्रभृतयः शुभा भवन्ति, शिरोऽर्तिपुत्रिका च अशुभा भवतः । यतः
शिरोतिर्वेदनामुत्पादयति. 'पुत्रिका लालिता या सा मस्तके चटितोच्यते' साऽपि मातापित्रो5 दुःखावहा भवति ।
इति मस्तकचटितमुकुटादिकथा शुभाशुभयोर्विषये ॥१५७॥
[158] अथ लौकिकी कृष्णार्जुनसम्बन्धिकथा । एकदा भद्रामवगणय्य अर्जुनो निजपुराद् द्वारवती प्रति चचाल तदा भद्रा स्वस्मिन्नवहीलनां ज्ञात्वा षट्त्रिंशदायुधानि कात्वा योद्धु संमुखमागात् । तदा पार्थस्तया सह योद्धं 10 लग्नः । भद्रा बाणधोरणी मुश्चन्ती पार्थस्योपरि मण्डपं चक्रे । तदाऽर्जु नेन युध्यता भद्राया हृदि
बाणो मुक्तः । तदा रक्तबिन्दुः पपातावनौ । स बिन्दुः पूर्वभद्रावत् द्वितीयभद्राऽभूत् । एवं यावन्तो रुधिरबिन्दवः पतिताः तावन्त्यो भद्रा अभूवन् । भद्राणां लक्षशः दृष्ट्वा पार्थः भद्रायाश्चरणकं विच्छेद यदा तदा भद्रा नग्नाऽभूत् । ततः पार्थः परस्त्रीसहोदरत्वात् पराक्मु
खोऽभूत् । ततो भद्राऽवग-भो अर्जुन ! सुभटास्तु पृष्टिं न ददते, त्वं तु सुभटतमः, कथं पृष्टिं 15 दत्से ? ततोऽर्जुनोऽवग् भो भद्रे ! स्वपदी विलोकय । तदा भद्रा स्वं नग्नत्वं दृष्ट्वाऽर्जुनस्य तु
परस्त्रीपराजमुखत्वं च तुष्टा सती प्राह-भो पार्थ! वरं याचस्व ! अर्जुनोऽवग-यदि तुष्टाऽसि तदा स्वीयां विद्यां मम वितर।
___ भद्राऽवग-मया तुभ्यं स्वीविद्या दत्ता । ततस्तां कला पार्थो लात्वा द्वारकायामाययौ, कृष्णस्य मिलितः, कृष्णस्य भगिनीं स्वानुरागां ज्ञात्वा पार्थो रथारूढां कृत्वा चचाल । ततः कृष्णः सुभद्रां 20 चालयितु यान भटानप्रेषयन् ते भग्नाः पश्चादाययुः। ततः कृष्णः तां चालयितु चचाल ।
ततोऽर्जुनो भद्रादत्तविद्यया युध्यति । कृष्णो वाणधोरणी तथा मुमोच यथा पार्थो हृदि विद्धः । ततो यावन्तो रुधिरबिन्दवः पेतुः तावन्तो अर्जुना बभूवुः। ततो लाशोऽर्जुनान् दृष्टा स्वा भगिनी पार्थाय ददौ । ततोऽथ वरं मागय अर्जुनोऽपि प्राह-मार्गय वरं । कृष्णोऽवग-अतः
परमनेन युद्धेन न योद्धव्यम् । ततोऽर्जुनोऽवग-अतः परं त्वया सममेव मया न योद्धव्यं यदा 25 कौरवैः सहास्माकं युद्धं जायते तदा त्वं सहायीभव । यदि कदाचिदस्माकं पश्चानां मध्य
एकोऽपि म्रियते तदा त्वया पञ्चमेन भाव्यं । कृष्णेनापि तत्प्रतिपन्न । मया च तव रथे सारथिना स्थातव्यं । ततो यदा पाण्डवानां कौरवैः सह युद्धमभूत् तदा कृष्णः पार्थस्य शाकटिकोऽभूत् । ततः कौरवां हताः । इति लौकिकी कृष्णार्जुनसम्बन्धिकथा ॥१५८॥
[159] अथ कर्मोपरि वेश्यापुत्रकथा । 30 एकस्मिन्पुरे भीमभूपस्य पुत्राणां शतमभूत् । राजा क्रमान्मृतः। पञ्चदिव्यानि अभिमन्त्रि___ तानि हस्ती यदा राज्यं दातुं चचाल तदा लोको जगौ-न ज्ञायतेऽसौ कस्य राज्यं दास्यते ।
"Aho Shrutgyanam"