________________
प्रथमोऽधिकारा
[163] अथ मरुस्थलीयमुग्धजनसम्बंधः । एकदा गुरवः क्वचिद्ग्रामे मरुस्थल्यां ययुः। लोकेभ्यो धर्मोपदेशो दत्तः। साधवो विहर्तु गताः । श्राविकाभिः पृष्टं श्रीगुरूणां भवतां वा करमदीरासः समेति. नवा ? साधुभिरुक्तं-न समेति । ताभिरुक्तं गुरूणां करमदीरासोऽपि नायाति, इति हसितम् ।
ततः साधुभिः श्राद्धोहसितसम्बन्धं गुरूणां ज्ञापितं । गुरवों अंगु-य॒यं मुग्धाः न जानीथ 5 अल्पितं । कल्ये भवद्भिः श्राद्धीनामग्रे वक्तव्यं शालायामागम्यं । गुरवः कथयिष्यन्ति रासं । श्राविका गुरुपार्श्व आगताः। गरुभिः प्रोक्तं-करमदीरासा बहवः सन्ति । यष्माक को न ? ततस्ताभिः प्रोक्तं-वयं जानीम एक एव रासोऽस्ति । गुरवो जगुः-यो युष्माकमायाति स गण्यतां । ततस्ताभिरुक्तो, गुरुभिरपि प्रोक्तः स एव, ततस्ताभिरुक्तं गुरवो विज्ञा एव । एवं मरुस्थलीयमुग्धजनसम्बंधः ॥१६३॥
10 [164 ] अथ धर्मविषये वज्र-रत्न-लोहाकरादिसम्बंधेद्रव्य धर्मगणितचरणानुयोगसम्बन्धः ।
लक्ष्मीपुरे जितशत्रोभूपस्य श्रीः पन्यभूत् । चत्वारः पुत्रा भीम-सोम-चन्द्रा-र्जुननामानाः । तस्य राज्ञो वज्र-कनक-रजत-लोहाकरा आसन् । राज्ञा परलोकं गच्छता चत्वार आकराः प्रत्येक विभज्य दत्ताः । त्रयो हृष्टाः। चतुर्थो लोहाकरग्राही कृष्णास्योऽभूत् । चतुर्थ भूपपुत्रं श्यामास्य वीक्ष्य सुमतिमंन्त्री पप्रच्छ । किं तवास्यमीदृग् ? ततस्तेन श्यामास्यसम्बन्धे प्रोक्ते मन्त्री प्राहार्जुनं 15 प्रति पिता त्वां लघु पुत्रं ज्ञात्वा भक्त्या तव लोहाकरो व्याणि । अर्जुनोऽवग-कथं ज्ञायते ? मन्त्री प्राहेति-पित्रा ज्ञापितमस्ति ते लोहाकस्रात्. यावन्माचं लोहं निःपद्यते तावत्त्वया भण्डारे स्थाप्यं, न विक्रेतव्यं । बञाकारादयो लोहं विनान वज्रादि लातुमीशते । ततोऽर्जुनोऽखिलं लोहं भण्डारे चिक्षेप । क्रमाल्लोहे निष्ठिने ते भीमादयो राजपुत्रा लोहं विना वज्रादीन लातुं समारयितुं न समर्था बभूवुः । ततः साधिक वनादि तोलयित्वा लोहं गृहृते । ततोऽर्जुनस्य बहुले 20 धने जाते हया हस्तिनो रथाः पदातयो बहवोऽभूवन् । क्रमान्महद्राज्यं जातम् । अर्जुनोऽपि भूपपुत्रो सुखी जातः । उक्तं चः--
जह रन्नो विसएस, वइरे कणगे य स्ययलोहे अ । चत्तारि आगरा खलु, चउण्ह पुत्ताण ते दिना ॥१॥ चिंता लोहागरिए, पडिसेहं कुणाई सो उ लोहस्स । वयराए हि अगहणं, करंति लोहस्स तिनिअरे ॥२॥ एवं चरणमि ठिओ, कारइ गहणं विहीइ इयरेसिं ।
एएणं कारणेणं, हवइ . हु चरणमहिट्ठिअं ॥३॥ - द्रव्यानुयोगो दृष्टिवादः ॥११॥ धर्मानुयोग उत्तराध्ययनादिः ॥२॥ गरिणतामुयोगः सूर्यप्रज्ञप्त्यादिः ॥३॥ चरणानुयोग ओधनियुक्त्यादिः ॥४॥
25
30
"Aho Shrutgyanam"