________________
९८ ].
ततः सर्वैर्जनैः प्रोक्तं - सत्यमुक्तं होतडेन । ततो होदडो ध्यानं कृत्वाऽवग्-
सर्वत्र क्षेत्रपार्श्वे सीममध्ये च शब्दमेवमुच्चार्थतामुच्चकैः । ये शशका उदूखलेषु पदानि 5 चटयित्वाऽस्माकं क्षेत्राणि भक्षयन्ति तेषां प्राणा एव ग्रहीष्यन्ते । ततो रात्रौ वृत्तिसमीपे हक्कयद्भिः स्थीयते ततस्तथा कृतं तैः ॥ इति मुग्धतायां होदडिकथा ।। १५३ ।।
प्रबन्धपश्चशती
औषधिं पग चडावी, बालखाधाससलेहिं । किं मुधासि मरुपपडी, होदडेण मूण ||१||
[154] अथ बुद्धौ धूर्त्तकथा |
वीरपुरे कस्यचिद्वणिजः हट्टे द्वाभ्यां पथिकाभ्यां सुवर्णपूर्णा वासनिका मुक्ता । प्रोक्तं"यदा आवाभ्यां द्वाभ्यामागत्य मार्ग्यते दाणीयेयं” एवं प्रोच्य तां तत्र मुक्त्वा ग्रामा10 न्तरे गतौ तौ । ततोऽन्यदा तयोर्मध्यादेको धूर्तोऽभ्येत्य वचनच्छलात्तां वासनिकां लावा गतः । पुनद्वितीय आगात्, वासनिकां याचते स्म । श्रेष्ठी जगौ -- मया दत्ता तव सोदराय । पान्थिकोऽवग्-- कस्य सोदरः, वासनिकामर्पयेः । ततो द्वावपि राजकुले गतौ । स्वं स्वं सम्बन्धं प्रोस्तुरेवं-प्रथमं श्रेष्ठी जगौ द्वाभ्यां धूर्त्ताभ्यां वासनिका मुक्ता ममाट्टे | एकश्छलं कृत्वा ललौ तां किं क्रियतेऽधुना मया । अथ धूर्खोऽवग् वासनिकां मुक्त्वा मयोक्तं यदाऽडवाभ्यां 15 द्वाभ्यामागम्यते तदा अर्पणीया वासनिका । ततस्त्वरितं जल्पन्तं वीक्ष्य तं धूतं मत्वा च मन्त्रिभिर्बुद्धिमद्भिः प्रोक्तं- युवां द्वौ सोदरौ एकीभूयात्रागच्छतः । ततोऽसौ श्रेष्ठी वासनिकामयिष्यति त्वयैवं प्रोक्तत्वात् । ततः स्वं मस्तकं खज्जयित्वा गतो धूर्त्तः ।
इति युद्धौ धूतकथा ॥ १५४॥
20
25
[155] अथ धर्मविषये योगिकथा |
कस्यचित्पुरोपान्ते ध्यानलीनं योगिनं दृष्ट्वा लोकाः प्रष्टुमागच्छन्ति । यतः
मनोहरपुरोपान्ते, ध्यानलीनं तु योगिनम् ।
दृष्ट्वा शुभाशुभं प्रष्टुं व्रजन्ति स्म पगे प्रगे ॥ १ ॥
स्वं स्वं चिन्तितं माँ, प्रष्टुं यदा जल्पन्ति मानवाः । तदा योगी जगौ लोका, विलोक्य कथ्यते शनैः ॥ २ ॥
-----
ततो लोका बराहारैः प्रीणयन्तो निरन्तरम् । प्रातः प्रातः समागत्य, प्रणामं तन्वते सदा || ३ || अन्येद्युर्मनुजा मध्य - 1 [-दिनं यावत्स्थिता जगुः । यदा प्रष्टं त्वयाऽस्माकं कथ्यन्ते [ते] वाञ्छयते तदा ॥ ४ ॥
" Aho Shrutgyanam"