________________
5
९६ ]
प्रबन्वपश्वशती
[146 ] अथ हस्तद्रव्यार्जने कथा |
श्रीचन्द्रपुरे धीरकौटुम्बिको लोकानां क्षेत्रे च नवीनकदवरिकावणन क्षेत्रधान्यकपिशीर्षकृन्तनलिखन इत्यादिहस्त क्रियाभिर्धन मर्जयत् स्वं धर्मं कृत्वा स्वर्गतो मुक्तिं गन्ता । इति हस्तद्रव्यार्जने धीरकथा || १४९ ॥
10
25
[151] अथ बुद्धिधनार्जने धरणकथा |
धरापुरे श्रेष्ठ बुद्धि विक्रीणीते, वयंसुधाधवलिते हट्टे वर्गवेषधर उपविशति, लोका गृहणते सदा तत्र । एकदा तत्र वास्तव्यचम्पक ष्ठिपुत्रो मदन आगात् । धरणोपान्तेऽवग् radisट्टे क्रयाणकं किमपि न दृश्यते । श्रेष्ठी प्राह- अहं बुद्धि विक्रीणामि । यया धिया नरः सुखी स्यातां दास्येऽहं । ततः पञ्चशतद्रम्मैद्वयोः कलिं कुर्वतोः पार्श्वेन स्थेयमिति एक बुद्धि मदनो 15 ललौ । तदा केनाप्युक्तं - चम्पक भवत्पुत्रेणापूर्वकं क्रयाणकं गृहीतं, ततः श्रेष्ठ पुत्रं प्रत्यव स्वया a न कृतं । ततः श्रेष्ठी धरणस्योपान्ते गत्वाऽवग्-स्वया मम पुत्रो धीदानेन वाहितः । श्रेष्ठी धीदो जगौ - यदि ते न रोचते मम बुद्धिं पश्चादप्पयं ततो बहवो लोकाः साक्षिणः कृताः, अन श्रेष्ठिपुत्रेण द्वयोः कलिं कुर्वतोः पार्श्वे स्थेयं नो चेत् १० शतद्रम्मान् गृहीष्ये । एवं प्रोच्य पश्चाद् धनं दत्तं । एकदा श्रेष्ठपुत्रो मन्त्रिसेल्लहस्तपुत्रयोः कलिं कुत्रतोः पार्श्वेऽस्थात् । तदा ताभ्यां स 20 साक्षीकृतो मदनः राज्ञः पार्श्वे आकारितः । यदि एकशः पार्श्वे भूत्वा वक्ति तदा सोऽपि रुष्टो धनं पश्चात्स्फेटयति ततो मन्त्रिपुत्रपक्षपाते क्रमात्सल्यहस्तेनावसरे श्रेष्ठी दण्डापितः ततश्चम्पकः सपुत्रो वर्यां बुद्धिं लात्वा सुखी जातः ॥ १५१ ॥ |
इति बुद्धिधनार्जने धरणकथा ॥ १५१ ॥
[152] अथ औचित्यदाने घाविका - विक्रमार्क कथा |
[150 ] अथ मस्तकधनार्जने भीमकथा |
वीरमपुरे भीमो भार्गवो जिनधर्मं प्राप । एकवारं देवं पूजयति । द्विर्वारमावश्यकं करोति । सदा चतुःपञ्चसप्ताष्टनवदशैकादशद्वादशत्रयोदशमितभारं वहते । परेषां गृहेषु याति । धनमर्ज - यति । एवंविधं दुःशकं गृहस्थवासे वसन् स्वं धर्मकृत्यं नामुञ्चत् । क्रमात्स्वर्गं गतः पुनर्मर्त्यलोक पुनः स्वर्गं पुनः ततो मुक्तिः । इति मस्तकधनार्जने भीमकथा ॥ १५०॥
एकदा विक्रमादित्यभूपसभायां बहून् पण्डितानुपविष्टान् श्रुत्वा वैदेशिकेन बुधेनैका गाथा प्रेषिता । सा च सर्वैर्बुधैर्वाचिता तस्याः परमार्थमलभमानाः प्रोचुः । इयं गाथा निर्जीवाsस्ति तेनास्या अग्निसंस्कारः क्रियते । ततो बुधाश्चत्वारः स्कन्धिका जाताः । सा गाथा जंपाणे स्थापिता । भुग्नभाजने वह्निं क्षित्वाऽग्रेऽचलन्, कियन्तः पृष्टावचलन् कियन्तो बुधाः काष्टानि नीत्वा पुराइबहिश्चितां चक्रुः । इतो वर्त्मनि तो गाथा वहमानान् विबुधान्प्रति घाविका प्राह को मृतः ?
" Aho Shrutgyanam"