________________
प्रथमोऽधिकारः
[ ९५
रुसउ वा परो मा वा, विसं वा परिअत्तउ ।
भासिअब्बा हिआ भासा, पच्चक्खगुणकारिआ १७|| अमी चत्वारोऽपि प्रत्येकबुद्धाः पूर्वभवे समकालं पुष्पोत्तर विमानाच्च्युताः स्वरूपपुरे जाताः समकालं केवलज्ञानं प्रापुश्च क्रमादेव ते सर्व मुक्तिं प्रापुः ।
इति प्रत्येकबुद्ध स्वरूपम् ।। १४६ ।।
[147] अथ प्रमादाप्रमादे श्रेष्ठिपुत्रीत्रयकथा । वर्द्धमानपुरे पद्मश्रेष्ठिनः तिस्रः पुत्र्यः कमला-महना श्रीमत्यभिधाः धर्मकर्मकुशलाः धर्मशास्त्रविज्ञाः सत्य उभयकालं प्रतिक्रान्तिं त्रिकालं जिनपूजा कुवते, भावारीन् जेतुम् । इतो मोहसभायां कन्दप्पदेवोऽभ्येत्यावग--स्वामिन् ! पद्मश्रेष्ठिनः पुत्र्यस्तथा धर्म कुर्वाणा सन्ति यथा भवन्तं भवत्परिवारं च जेष्यति । तेनाधनैव ता जेतं स्वामिनाऽन्येन वा चाल्यते तदा 10 वरं । तदा मोहेन बीट के उत्पाटिते निद्राविकथाभ्यां प्रोक्तं--स्वामिन्नहं तथा करिष्ये यथा तास्तव वश्या भवन्ति । ततो विकथानिद्रे ते जेतुं गते, प्रथमं कमलापावें विकथाऽवग--- धनमहेभ्यपुत्र्या श्राविका भोजिताः त्वं तत्राकारिता न वा । साऽवग--किं मम प्रयोजनं, जेमन्तु बह्वयः एवं पृथक्पृथग्गृहः भोजनस्य स्वरूपं प्रोक्तं । ततः क्रमात्कमला जगौ-अहं नाकारिता तत्र इत्यादि राज-देश-भक्त-स्त्रीकथाभिः कमला विकथा कुवती कृता क्रमान्निद्रा- 15 मपि करोति, वेलायां देवपूजाप्रतिकमप्रभृति न करोति एवं मदनाऽपि प्रमादे पातिता ताभ्यां । ततः श्रीमती ताभ्यां प्रमादे न पातिता सा च स्वं धर्मकृत्यं वेलायां करोति । ततो विकथानिद्रे मोहभूपस्यान्ते गत्वोचतुः । कमलामदनश्रियो तवाज्ञां ग्राहिते न तु जीमती। मोहोऽवगवयं कृतं, श्रीमतीमहं घातयिष्यामि । ततो मोहेनानेकाभरणवस्त्रादिदर्शनेनापि सा न स्वाज्ञां ग्राहिता। कमलामदनश्रियौ श्वभ्रे ययतुः । श्रीमती अखण्डधर्म कृत्वा कर्मक्षये मुक्तिं गता। 20
इति प्रमादाप्रमादे श्रेष्ठिपुत्रीत्रयकथा ॥ १४७॥
[148 ] अथ पादद्रव्यार्जने कथा। एके जनाः पादाभ्यां श्रियमर्जयन्ति, एके हस्ताभ्याम् , एके मस्तकेन, एके बुद्धथा च, तत्रादौ पादाभ्यां श्रियाज्जने कथा
वीरपुरे कमलवणिक्पुत्रो देवको दारिद्रयवानभूत् । ततो महेभ्यभूपादोना लेखवाहकोऽभूत्। 25 योजनशतसहस्रं यावद्याति पुनरन्तरा वर्त्मनि गुरुपदोपान्ताङ्गीकृत द्विवारप्रतिक्रमण-एकवारदेव- . पूजादि धर्मकृत्यं न मुब्चति । सदैव धनमर्जयति । स्तोकं स्तोकं धर्मेऽपि व्ययति । स च देवको धर्म कृत्वा दुःस्थोऽपि स्वर्गसुख प्राप । क्रमान्मुक्तिं गन्ता ।
इति पादद्रव्यार्जने कथा ॥ १४८ ॥
90
"Aho Shrutgyanam"