________________
९२ ]
प्रबन्धपश्चशती
इन्द्रपुरे जितसेननृपोऽभूत् । तत्र देवसेनेभ्यः, तस्यालये धनसेनस्योष्ट्रिका प्रत्यहमेति । स वरबारिक: कुट्टयित्वा स्वगृहं नयति पुनरपि पश्चाद्याति । तत इभ्येन सा उष्ट्रिका स्वल्पेन गृहीता तस्याभीष्टा चाभूत् ।
एकदा धर्मधोषसूरिस्तत्रागात्, इभ्येन पृष्ट एषष्ट्रिका मम गृहे एव रतिं कथं लभते, 5 नान्यत्र । सूरिः प्राह - अनया पूर्वभवे देवद्रव्यं विनाशितं । तदा चैषा जिनस्याप्रे दीपं विधाय पश्चात्तेनैव दीपेन गृहकार्याणि करोति । तस्माद्दीपाद्वा गृहे दीपं करोति, धूपाङ्गारेण चुल्हकं संधुक्षयति च तेन कर्मणा उष्ट्रिकैषा जाता । तत्पातकं पुरा नालोचितं । बहुषु भवेषु तिर्यक्त्वं लब्धं संप्रति पुनरौष्ट्री जाता । कर्मलाघवाज्जाति प्राप्य पञ्चाद्भवसन्वन्धि देवद्रव्यविनाशनरूपं पापं स्मारं स्मारं जिनेन्द्रधर्म श्रोतुं तव गृहे तिष्ठति । यत उत्तमसंगादुत्तमपदवीं लभते जीवः । 10 क्रमादत्रस्थोष्ट्रिका जिनधर्मं त्वया क्रियमाणं श्रद्दधती मृतिं गमिष्यति, देवलोके गमिष्यति । ततो मानुषं भवं प्राप्य सर्वकर्मक्षयान्मुक्तिं यास्यति । अतो देवद्रव्यं व्याजेनापि न ग्राह्यं । यतः --
15
जिणयवयणवुडिकरं, पभावगं नाणं दंसणगुणाणं । भक्तो जिणदव्वं, अनंतसंसारिओ होई ॥१॥
जिण | बुड्ढन्तो जिणदव्वं, तित्ययरत्त लहइ जीवो ||२||
2
इति देवद्रव्यविनाशने उष्ट्रीकथा || १४२ ||
[14] अथ यक्ष कृतपापशमने अर्जुनमालिककथा |
राजगृहे बहिरन्येर्मुद्रपाणियझसदने पुष्पकरण्डकं भृत्वा अर्जुनमालिको मालिकायुतो दिनात्यये स्थितः । तदाऽकस्मात्तत्र पट् स्तेनाः सुरभिपुष्पगन्धतः समाययुः । तदा ते चौरास्ता 20 मालिकां दिव्यरूपां दृष्ट्वाऽर्जुनमालिकं बध्वा यक्षाऽर्जुनमालिकयोः पश्यतोः सतोभोगं कर्त्तुं लग्नाः तदाऽर्जुनो यक्षं प्रत्यवग्-भो यक्ष ! तव पश्यतः सतो मम पत्नी एते भुग्जन्ते त्वं ममसारी न कुरुषे । पत्नीं तेभ्यो भोगं ददानां दृष्ट्रा रुष्टः पत्नीं प्रत्यपि तदा मुद्रपाणियोऽर्जुनदेहेऽवतीर्य प्रियायुतान् षडपि स्तेनान् जघान । ततोर्जुनो प्रति दिनं पड् नरान् सप्तमी त्रियं हत्वैव देवगृहं याति । ततो मार्गागतान् पुरस्थान पट् पुरुषान् एकां स्त्रियं च हत्यैव तिष्ठति । 25 ततः पुरजनाः पुरःप्रतोलों दत्त्वा कोटस्योपरिस्थाः घट् नरान् स्त्रियमेकां हतान् दृष्ट्रा प्रतोलीबहिः निर्गच्छन्ति, ततः सदैवपापं करोति ।
अत्रान्तरे सुदर्शन श्रेष्ठी चतुर्दश्यां पौषधोपवासपारणे भगवन्तं श्रीवीरं बहिरुद्याने समवसृतं श्रुत्वाऽभिग्रहं ललौ, अद्य प्रभुं प्रणम्य पारणं कर्तव्यं मया, ततः प्रातः काल एव सुदर्शन श्रेष्ठी प्रभु नन्तुं निर्गच्छन्तं दृष्ट्रा लोका जगुः - भो श्रेष्ठिन् ! क्षणं तिष्ठ यावत् स 30 यक्ष स्वस्थाने याति । ततः श्रेष्ठी लोकवचनंमवगणय्य प्रतोल्या बहिर्निर्ययौ तदा यक्षः सुदर्शनं
दृष्ट्वा मुरमुत्पाट्य दधाव हन्तुं तदा तत्र सुदर्शन श्रेष्ठी 'नमो अरिहंताणं' इत्युच्चैः स्वरं
" Aho Shrutgyanam"